SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः] चिकित्सितस्थानम्। २८२७ भवन्ति चात्र। वातात् पित्तात् कफात् प्नीहः सन्निपातात् तथोदकात् । परं परं कृच्छ्रतममुदरं भिषगादिशेत् ॥ २८॥ पक्षाद बद्धगुदन्तूद्ध सर्व जातोदकं तथा। प्रायो भवत्यभावाय छिद्रान्त्रञ्चोदरं नृणाम् ॥ २६ ॥ शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्। बलशोणितमांसाग्नि-परिक्षोणञ्च वर्जयेत् ॥ ३०॥ इम स्पृशन्ति वम्यादयः। तत्रादिपदेन ज्वरादयश्च। तथाविधं जातोदकोदररोगिणमचिकित्स्यं विद्यादिति ॥२७॥ गङ्गाधरः-प्रमाणभूताः श्लोकाश्च भवन्ति चात्र। वातादिल्यादि। वातजादुदरात् कृच्छतमं पित्ताजातमुदरमादिशेत्, पित्ताज्जातोदरात कुच्छतमं कफाज्जातमुदरं, कफजातादुदरात् प्लीहयकृज्जातमुदरं कृच्छतमं, प्लीहयकृज्जातोदरात् कृच्छतमं सनिपाताज्जातमुदरं, सन्निपातोदरात् कृच्छतममुदकोदरमिति ॥२८॥ गङ्गाधरः--तर्हि बद्धगुदोदरं क्षतोदरश्च किं साध्यमित्यत आहपक्षादित्यादि। बद्धगुदोदरं पक्षादूद्ध प्रायोऽभावाय भवति, प्रायःपदात् कचित् सासादिकं जीवयति ततोऽभावाय भवत्येव । इत्येवं जातोदकं सर्वमुदवं पक्षादूद्ध प्रायोऽभावाय भवत्येवं छिद्रान्त्रमुदरश्च पक्षादूर्द्ध मायोऽभावाय भवतीति ॥२९॥ गङ्गाधरः--अजातोदकानां वातादिजानां कृच्छात् कृच्छतमानामप्यसाध्यसमाह-शूनाक्षमित्यादि। शूनं स्फीतमक्षि यस्य तं, कुटिलोपस्थं चक्रपाणिः-परं परं कृच्छ्रतममिति यथा यथा परत्वनिर्देशो तथा तथा कृच्छ्रसाध्यत्वम् ॥२८॥ चक्रपाणिः-बद्धच्छिद्रदकोदराणां विशेषमाह-पक्षादित्यादि। बद्धगुदमुदरं पक्षार्ड' विनाशाय प्रायो भवति, कदाचित् पक्षादूद्ध मपि अभावाय न भवतीति प्रायःशब्देनाह। जातोदकं छिद्रच प्रायो विनाशाय भवति, कदाचित् विषशस्त्राभिमतचिकित्सया जातोदकं छिद्र बदगुदव सिध्यतीति प्रायःशवेन दर्शयति ॥ २९॥ चक्रपाणिः-शूनाक्षमित्यादिना साध्योक्तानामप्यसाध्यतामाह । कुटिलोपस्थमिति वक्रोपस्थम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy