________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२६
[ उदर चिकिरिलतम
चरक संहिता | सेत् । उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्ता अपरिपाकाद द्रवीभूताः सन्धीन स्रोतांसि चोपक्लेदयन्ति । स्वेदश्च वाह्यषु स्रोतःसु प्रतिहतगतिस्तिर्य्यगत्र तिष्ठमानस्तदेवोदकमाप्याययति । तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं मृदुस्पर्शमपरिमतराजीकमाक्रान्तं नाभ्यामेवोपसर्पतीति ॥ २६ ॥
ततोऽनन्तरमुदकप्रादुर्भावः । तस्य रूपाणि – कुत्तेरतिमात्राभिवृद्धिः सिरान्तर्द्धानगमनमुदकपूर्णदृतिसंक्षोभसमस्पर्शच । तदातुरमुपद्रवाः स्पृशन्ति वम्यतीसारतमकतृष्णाश्वासकासहिक्रादौर्बल्यपार्श्वशूलारुचिस्वरभेदमूत्रसङ्गादयः । तथाविधम्
चिकित्स्यं विद्यात् इति ॥ २७ ॥
सन् वद्यचिकित्सेत् । उपेक्षायां दोषमाह--उपेक्षितानामित्यादि । एषां ह्यष्टानामेोदराणामुपेक्षितानां त्वरया चिकित्साया अकरणे दोषा उदरकृतवन्तो वातादयः स्वस्थानादपवृत्ताः स्वस्थानं विहायान्यस्थाने प्रवृत्ता अपरिपाकात् आहारस्य पुनद्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति । स्वेदश्च वाह्यस्रोतःप्रतिहतगतिर्न निर्गच्छन् तिर्यगवतिष्ठमानस्तदेवोदकं वर्द्धयति । तदुदकाध्यायने पिच्छोत्पद्यते पिच्छोत्पत्तौ तूदरं मण्डलरूपं भवति गुरु च स्तिमितञ्च आकोठितम् ईषत्कोटयुक्तम् अशब्दस्पर्श स्पृश्यमानं न शब्दायते, अपगत जिकं राजीदर्शनं न स्यात् । नाभ्यां नाभौ वाक्रान्तं सर्पतीति ॥२६॥
तत्र
गङ्गाधरः- ततः परमुदकमादुर्भावः । तस्य रूपाणि उदकप्रादुर्भाव - लक्षणानि । कुक्षेरित्यादि । कुक्षेरुदरस्योभयभागस्याभिवृद्धिः । सिरान्तर्द्धानगमनं सिरा न दृश्यते । तदा खल्वेवम्भूते सत्युदके जातोदके आतुरमुपद्रवा
चक्रपाणिः - साध्यासाध्यविभागमाह - तत्रेत्यादि । अनुदकप्राप्तमिति अजातोदक रूप दोषावस्थंपरिपाकेणास दोषाणां द्रवत्वं स्वभावादेव ज्ञेयम् । वाह्यषु स्त्रोतःसु प्रतिहतगतिरिति वर्गिन्तुमसमर्थः । भव जलजन्मपूर्वरूपं दिच्छोत्पद्यते, तेन पिच्छोत्पत्तिलक्षणमेव तावदेव । पिच्छासदृशो भागः पिच्छा । अन्ये तु भक्तमण्डपिच्छामाहुः । सर्पतीति चलति ॥ २६ ॥
चक्रपाणिः- उदकपूर्णइतिचत् संक्षोभः मांसस्य पिच्छोदकरूपं प्राप्तस्य । श्वासविशेषः । अचिकित्स्यमिति विषप्रयोगशस्त्रप्रणिधानादिदारुणकर्मव्यतिरिक्त क्रिययाऽचिकित्स्यें विद्यात् ॥ २७ ॥
For Private and Personal Use Only
तमकः