________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१८
चरक-संहिता। [उदरचिकित्सितम् तस्य रूपाणि-कुक्षिपादवृषणश्वयथूदरविपाटनम् अनियतौ च वृद्धिहासौ। कुक्षिपार्श्वशूलोदावाङ्गमई पर्वभेदशुष्ककासकार्यदौर्बल्यारोचकाविपाका अधोगुरुत्वं वातवचोमूत्र. सङ्गः । श्यावारुणत्वञ्च नखनयनवदनत्वमूत्रवर्चसामपि चोदरं तन्वसितराजीसिरासन्ततम् आध्माततिशब्दवद् भवति । वायुश्चात्रोद्धमधश्च तिर्यक् च सशूलशब्दश्चरति। इत्येतद् वातोदरमिति विद्यात् ॥ ११ ॥
कटुम्ललवणात्युषण-तोदणाग्न्यातपसेवनैः। विदाह्यजीर्णाध्यशनैश्चाशु पित्तं समाचितम् ॥ प्राप्यानिलको बद्धा मार्गमुन्मार्गमास्थितम् । निहन्त्यामाशये वह्नि जनयत्युदरं ततः ॥ १२॥ गङ्गाधरः-तस्य रूपाणीत्यादि। गद्यम् । कुक्षीत्यादि । कुक्ष्यादिषु वयथु. थोदरस्य विपाटनश्च पाटनवदुदरस्य वृद्धखात्। उदरस्य वृद्धिहासावनियतौ। कुक्षिपार्शयोः शुलमुदावर्त्तश्चाङ्गमईश्च पर्चभेदश्च शुष्ककासश्च दोब्बेल्यचारोचकश्च अविपाकश्चाधोङ्गे गुरुवश्च वातस्य वर्चसो मूत्रस्य च सङ्गश्चाप्रवृत्तिः । नखादीनां श्यावारुणश्च । अपि चोदरन्तु तन्वश्वतराजीभिस्तन्वश्वेतसिराभिश्च सन्ततम् । आध्मातहतिवद वायुना पूर्णचर्मपुटकवस्तिवच्चाध्मातश्चोदरं भवति । वायु. वात्रोदरे सशूलः सन् ऊर्द्ध मधस्तिय्यक च विचरति । इत्येव वातोदरमिति विद्यात् ॥११॥
गङ्गाधरः-कटुम्लेत्यादि। पद्यानि। विदाहि भृष्टतण्डुलादि। अजीर्णे सत्यशनं पूर्वदिनाह.राजीणे चाशनमध्यशनमित्येतैहेतुभिराशु समाचितं पित्तमानलकफो प्राप्योन्मार्गमूर्द्ध पथमाश्रितं, ताभ्यामनिलकफाभ्यां मार्ग
पाणिः-अनियतौ च वृदिहासावुदरस्येति शेषः। असिता राज्यः सिराश्च ताभिः सन्ततं म्याप्तम् । आध्मातेति वातपूर्णचर्मवत् ॥ ११ ॥
पाणिः- कटिस्यादिना पित्तोत्तरमाह। तत्रापि अनिलकफावप्रधानौ, पित्तन्तु प्रभातम् । निहन्यामाशये वहिमित्यनेन स्थानान्तर धात्वग्निवधं कृत्वा ॥ १२॥
For Private and Personal Use Only