SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः ] चिकित्सितस्थानम् । २८१६ तस्य रूपाणि- दाहज्वर तृष्णामूर्च्छातिसारा श्रास्यकटुत्वं पीतत्वं नयनवदनत्वमूत्रवर्च्चसाम्। अपि चोदरं नीलपीतताम्रहारिद्रहरितराजीसिरावनद्धं दह्यते दूयते धूप्यते उष्मायते स्विद्यति कियते मृदुस्पर्श शोघ्रपाकं भवति । इत्येतत् पित्तोदरमिति विद्यात् ॥ १३ ॥ व्यायाम दिवास्वप्न खाद्वतिस्निग्धपिच्छिलः । दधिदुग्धोदकानूप-मांसैश्चाप्यतिसेवितैः ॥ क्रुद्धेन श्लेष्मणा स्रोतः स्वावृतेष्वावृतोऽनिलः । तमेव पीडयन् कुर्य्यादुदरं वहिरन्तरम् ॥ १४ ॥ बद्धामाशये वह्नि निहत्य तत उदरं जनयति । इति पित्तोदरसम्प्राप्तिः सनिदाना ॥ १२ ॥ गङ्गाधरः- तस्य पित्तोदरस्य रूपाणि दाहेत्यादि । दाहश्च ज्वरश्व तृष्णा च मूर्च्छा चातिसारथास्यकटुखञ्च नयनादीनां पीतलञ्चापि चोदरं नीलादिराजिभिरवनद्धं नीलादिसिराभिरवनद्धञ्च । दह्यते चोदरं दूयते चोपतप्यते धूप्यते धूपनवत् सन्तते उष्मायते उष्मेवाचरति स्विद्यति धम्मक्ति भवति लियते स्वयमेव क्लेदान्वितं भवति । मृदुस्पर्श शीघ्रपाकञ्चोदरं भवति । तस्मात् क्लियते । इत्येतत् पित्तोदरमिति विद्यात् ॥ १३ ॥ गङ्गाधरः- अव्यायामेत्यादि । सामान्यनिदानेष्वव्यायामादिभिरतिसेवितैः क्रुद्धेन श्लेष्मणा आहृतेषु स्रोतःसु तत आवृतोऽनिलस्तमेव श्लेष्माणं वहिरन्तरश्च पीड़यन्नुदरं कुर्य्यात् । इति श्लेष्मोदरसम्प्राप्तिनिदानसहिता ॥ १४ ॥ चक्रपाणिः - हारिद्रो हरिद्राभः । दूयत इति व्यथते । धूप्यत इति धूममिव उद्दमति । उष्मायत इति पाइस्थेनैव वह्निना दह्यते । स्विद्यत इति घर्म्माकं भवति । क्षिप्रपाकं भवति इति शीघ्रपाकाजलोदरतां याति ॥ १३ ॥ चक्रपाणिः - अन्यायामेत्यादिना कफोदरमाह । वहिरन्लग इति अम्वाद्वाागः ॥ १४ ॥ "वहिरन्तरम्" इत्यस "वहिरन्तगः" इति चक्रपाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy