________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१६
चरक-संहिता। (उदरचिकि सितम क्षनाशः स्वादुता स्निग्ध-गुर्वन्नं पच्यते चिरात् । भुक्तं विदह्यते सर्व जीर्णाजीणं न वेत्ति च ॥ सहते नातिसौहित्यमीषच्छोफश्च पादयोः । शश्वदवलनयेऽल्पेऽपि व्यायामे श्वासमृच्छति ॥ वृद्धिः पुरीषनिचये रुक्षोदावर्तहेतुका। वस्तिसन्धौ रुगाध्मानं वर्द्धते पाट्यतेऽपि च ॥ पातन्यते च जठरं लघ्वल्पै जनैरपि। राजीजन्म बलीनाश इति लिङ्ग भविष्यताम् ॥ ६ ॥ रुद्धा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः।। प्राणान्यपानान् संदूष्य जनयन्त्युदरं नृणाम् ॥७॥ गङ्गाधरः-निदानमुक्त्वा पूवरूपमाह-शुन्नाश इत्यादि। स्वादुता सर्चद्रव्याभ्यवहारे स्वादुताबोधः सापेक्षयाधिकः । स्निग्धश्च गुरु चान्नं भुक्तं चिराव पच्यते। सर्वश्च स्निग्धं गुरु वा लघु रुक्ष वा विदह्यते विदग्धाजीर्ण भवति, तच जीर्णमभृत किमजीणमस्ति तन्न वेत्ति च। अतिसोहित्यमतिराप्तितः कृतमाहारं न सहते पादयोश्चेपच्छोफः। बलक्षये सत्यल्पेऽपि व्यायामे शश्वच्छासं मामोति। पुरीपनिचये रुक्षोदावर्तनिमित्ताद द्धिः स्यात् । वस्तिसन्धौ रुक । भोजनेर्लघ्वल्परपि आध्मानं भवति । जठरमुदरं बद्धते पाव्यते आतन्यते च। उदरे राजीनां रेखाणां जन्म बलीनाश्च नाशः स्यात्। इति भविष्यतामुदराणां लिङ्गम् ॥६॥ . गङ्गाधरः-पूर्व मन्देऽनावित्यादिना योदरस्य सम्प्राप्तिरुक्ता तामेव संक्षेपेण पुनराह-रुद्ध त्यादि। सश्चिता दोषाः स्वेदाम्बुवाहीनि स्रोतांसि
पाणिः-भुन्नाश इति पूर्वरूपाभिधानम् । स्वाद्वादीनां यद्यपि कटुकायपेक्षया चिरेणैव पाको भवति, तथापीह चिरादिति पदेनात्यर्थ चिरादित्यभिधीयते। जीर्णाजीर्ण न वेति घेति वातजन्यत्वानेयम्। रुक्षोदावर्तहेतुकेति वा पाठः। वस्तिरित्यत्र वस्तिना समं शरीर• देशसंबन्धः। आतन्यत इति विस्तार्यते । राजी व्यक्ता शिरा ॥६॥
पक्रपाणिः-सत्यादिना चतुर्णा दोषजन्यानामुदराणां सामान्यात् संप्राप्तिमाह । पूर्व या संप्राप्तिरुक्का सा सर्वोदराणामित्येके वदन्ति। रुदत्यादिना पूर्वसंप्राश्वनुक्तस्य स्वेदाग्छ,
For Private and Personal Use Only