________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५श अध्यायः
२८१५
चिकित्सितस्थानम्। अत्युष्णलवणचार-विदाह्यम्लगराशनात् ।। मिथ्यासंसर्जनाद रुक्ष-विरुद्धाशुचिभोजनात् ॥ नीहार्मोग्रहणीदोष-कर्षणात् कर्मविभ्रमात् । किष्टानामप्रतीकाराद रौक्ष्याद वेगविधारणात् ॥ स्रोतसां दूषणादामात् संक्षोभादतिपूरणात् । अर्थोबालशकूद्रोधादन्त्रस्फुटनभेदनात् ॥ अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम् । उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः। ५॥
गाधरः-हतुरंतूच्यते--अत्युष्णेत्यादि। गरं संयोगविषम् । अत्युषणादिमरान्तानामशनात्। मिथ्यासंसर्जनादाहारविधिविपर्ययेणाभ्यवहारात्। रुक्षाणां विरुद्धानामशुचीनाञ्च द्रव्याणां भोजनात्। प्लीहादिभिर्व्याधिभिः अतिकर्षणात् प्लीहादीनां चिकित्सितकर्मणां विभ्रमादयथावत्करणात्, क्लिष्टानां तत्प्लीहादिभिः क्लिष्टानां, तत्प्लीहादिप्रतिकाराभावात्, रौक्ष्यात्, मूत्रपुरीषादिवेगधारणात्, स्रोतसां मूत्रपुरीषादिवहानां दूषणात् । आमादपकाहारदोषात्। संक्षोभाच्चित्तस्य, अतिपूरणात् दध्यादिद्रवाति. भक्षणात् अशोरोधाद्विपुलस्थूलमांसाङ्क रेण गुदबन्धान्मलरोधात्, बालानां केशानामाहारसहितभक्षितानां रोधात् मलस्येति अशोबालाभ्यां शकतो रोधात्। बालाश्मकण्टकादिभक्षणेनान्त्रस्य स्फुटनभेदनात्। मन्दानीनां विशेषतः प्रायेण मन्दाग्रीनामुदराण्युपजायन्ते शीघ्र न तथान्येषां जनानामिति ॥५॥
चक्रपाणिः-भन्युष्णेत्यादिना हेतुमाह । कर्मविभ्रमादिति वमनादीनामसम्यककरणात् ।' क्लिष्टानामप्रतिकारादिति कृतया प्रतिक्रियया इत्यर्थः। रौक्ष्यात् उत्पत्तिः, रौक्ष्यस्य प्रतिक्रियाऽभावेनानुवर्तनात्। आमादिति आमानुबन्धात्। पापं कर्म च कुर्वतामित्यनेनास्य महाइःखसपल अषलाधर्मजन्यतामाह । मन्दाग्नीनां विशेषत इति अत्यन्तोपहताग्नीनाम् ॥ ५॥
For Private and Personal Use Only