________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोदशोऽध्यायः। अथात उदरचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ सिद्धविद्याधराकीणे कैलासे नन्दनोपमे। तप्यमानं तपस्तीव साक्षाद्धर्ममिव स्थितम् ॥ भिषग्वेदविदां श्रेष्ठं भिषग्वेदप्रवर्तकम् । पुनर्वसुजितात्मानग्निवेशोऽब्रवीद् वचः॥ भगवन्नुदरैर्दुःखैदृश्यन्ते ह्यदिता नराः। शुष्कवक्ताः कृशानराधमातोदरकुक्षयः॥ प्रनष्टाग्निबलाहाराः सर्वचेष्टाखनीश्वराः । दीनाः प्रतिक्रियाभावाजहतोऽसूननाथवत् ॥ तेषामायतनं संख्यां प्रान पाकृतिभेषजम् । यथावच्छोतुमिच्छामि गुरुणा सम्यगीरितम् ॥२॥
गडाधरः-अथ चिकित्सितोद्देशानुक्रमात् श्वयथोरुत्तरम् उदरचिकित्सितमाह-अथात इत्यादि। पूर्ववत् सव्व व्याख्यातव्यम् ॥१॥
गङ्गाधरः-सिद्धत्यादि। भिषग्वेदविदामायुर्वेदविदां श्रेष्ठं भिषग्वेदमवतकमायुर्वेदस्य प्रकाशनेन प्रवत्तंकारिणम् अग्निवेशो वचोऽब्रवीत्। तदाहभगवनित्यादि । सर्वचेष्टास्वनीश्वरा अक्षमाः। अनाथवदसून जहतो दृश्यन्ते। तेषामुदराणाम् ॥२॥
पाणिः- शोथभेदरवाइदरस्य शोथचिकित्सामन्तरमुदरचिकित्सितमुज्यते। आपुग्दविदामिति भिषग्वेदविदाम्। वैरिति दुःखकारणैः। तेषामिति उदराणाम् । आयतममिति कारण संख्या च। यद्यपि रोगाधिकारेऽष्टाबुदाणीत्यनेनोक्ता तथापि गुल्मकुष्ठयोस्तत्र संख्यादि. आमदर्शनात् पुनः संख्याप्रमः। किंवा प्रकरणागतत्वात् संख्योकापि पुनरुच्यते ॥१॥२॥
३५३
For Private and Personal Use Only