________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१२
चरक-संहिता। ( वयचिकित्स्तिम प्रायोऽभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र । वीसर्पनुन्मारुतरक्तनुच्च कार्य विषघ्न विषजे च कर्म ॥ ६४ ॥
तत्र श्लोकः। त्रिविधस्य दोषभेदात् सर्वा वयवगात्रभेदाच्च । श्वयथोविविधस्य तथा लिङ्गानि चिकित्सितञ्चोक्तम् ॥ ६५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने .
श्वयथुचिकित्सितं नाम द्वादशोऽध्यायः॥ १२॥ गङ्गाधरः-तत्रागन्तुजेऽभिघातजविषजशोथे विशेषमाह-प्राय इत्यादि। प्रायोऽभिघातात् कुपितः सरक्तोऽनिलः सरागान् शोथान् प्रकरोति। तत्राभिघातजशोथे विसपनुत् कर्म मारुतरक्तनुच्च कर्म काय्यम्। विषजे च शोथे तत्तद्विषघ्नं कम्म काय्यमिति ।। ६४ ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोक इति । अग्नीत्यादि ।। ६५ ।। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे श्वयथुचिकित्सितजल्पाख्या
द्वादशी शाखा ॥ १२ ॥ चक्रपाणि:-अव शोथप्रकारसंग्रहार्थम् आगन्तुशोथचिकित्सामाह-प्राय इत्यादि । विषजे शोथे इति सम्वन्धः ॥ ६४॥
चक्रपाणिः-संग्रहे सर्वार्द्धगावावयवभेदाच विविधस्येति सम्बन्धः। द्विविधस्येति पाठे निजागन्तुभेदेन ॥ ६५ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायां श्वयथुचिकित्सितं
नाम द्वादशोऽध्यायः ॥ १२ ॥
For Private and Personal Use Only