________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः]
चिकित्सितस्थानम् ।
२८११ मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीनं तनुरक्तपाकम् । कुर्वन्ति शोफ ज्वरतर्षयुक्तं विसर्पिणं जालकगईभाख्यम् ॥६१॥
विलेपनं रक्तविमोक्षणञ्च विरुक्षणं कायविशोधनश्च। धात्रीप्रयोगान् शिशिरप्रदेहान्
कुर्यात् सदा जालकगर्दभस्य ॥ ६२ ॥ एवंविधांश्चाप्यपरान् परोक्ष्य शोथप्रकाराननिलादिलिङ्गः। शान्तिं नयेद् दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः ॥ ६३ ॥
चिकित्सामाह-सिराकफघ्नश्च विधिः सिरावेधविधिः कफघ्नविधिश्च सपप लेपनश्च तत्रेष्यते ॥ ६॥
गङ्गाधरः-मन्दास्त्वित्यादि। पित्तप्रबला दोषा मन्दा अल्पाः प्रदुष्टाः सुतीव्र शोफ तनू रक्तवर्णपाको यस्य ज्वरतर्ष युक्तं विसपिणं कुर्वन्ति, स जालकगईभाख्यः ॥ ६१ ॥
गङ्गाधरः-तस्य चिकित्सामाह-विलेपनमित्यादि। विलेपनं पित्तप्रधानत्रिदोषहरद्रव्येण। विरुक्षणं विरुक्षण-प्रकरणोक्तद्रव्येण। कायविशोधनं वमनादिना। धात्रीप्रयोगान् आमलकीफलानां स्वरसकल्कादिरूपेणव प्रयोगान् कुर्यात् । शिशिरप्रदेहांश्च कुर्यात् ॥ ६२॥ ___ गङ्गाधरः-अपरिसङ्घप्रयखाच्छोफानामाविष्कृततमान् कतिचिच्छोफानुक्त्वा शेषानुपसंहरति-एवंविधांश्चेत्यादि। एवंविधान् अपरान् शोथमकारान व्याधीन् अनिलादिलिङ्गः परीक्ष्य यथास्वं दोषहरैरालेपनच्छेदनभेददाहैः शान्तिं नयेत् ॥ ६३॥
चक्रपाणिः-मन्दा इत्यादौ मन्दा इत्यल्पवृद्धाः। पित्तं प्रबलं येषां ते पित्तप्रबलाः। मन्दा इत्यत्र बहुवचनं व्यक्तरपेक्षया । तनू रक्तपाको यस्मिन् तत् तनुरक्तपाकम् । सुश्रुते हि अपाकशब्देन ईपरपाक उक्तः । “अपाफः श्वयथुः पित्तात् स ज्ञ यो जालगभः' इति। रक्तपाकयुक्त रक्तपार्क न तु रक्तवर्णमालम् ॥ ६१-६३ ॥
For Private and Personal Use Only