________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१०
चरक-संहिता। । श्वयथुचिकित्सित क्रिमेस्तृणा-8-दिक्षणनव्यवाय-प्रवाहणात्युत्कटुकाश्वपृष्ठः। गुदस्य पार्वे पिड़का भृशार्तिः पाकप्रभिन्ना तु भगन्दरः स्यात् ॥५८ विरेचनञ्चैषणपाटनश्च विशुद्धमार्गस्य च तैलदाहः । स्यात् क्षारसूत्रेण सुपाचितस्य भिन्नस्य चास्य व्रणवचिकित्सा ॥५६ जवासु पिण्डीषु पदोपरिष्टात् + स्यात् श्लीपदं मांसकफास्त्रदोषात्। सिराकफनश्च विधिः समग्रस्तष्यते सर्षपलेपनश्च ॥ ६०॥ मूत्रमेदःकफजं वृद्धयाख्य शोफ शस्त्रेण विपाट्य विशोध्य सीव्यं सीवनं कार्य, विपक चे व्रणवत् कार्यम् ॥५७॥
गङ्गाधरः-क्रिमरित्यादि। क्रिमिः पिपीलिकादिः कीटस्तस्मादशादिकारणः तृणादिक्षणनं तृणकण्टकादिना हननं प्रवाहणं कुन्थनम् अत्युत्कटकैरश्वपृष्ठः गुदस्य पार्श्वे भृशातिः पिड़का स्यात् सा पाकेन प्रभिन्ना भगन्दरो नाम स्यात् ॥ ५८॥
गङ्गाधरः-अस्य चिकित्सामाह- विरेचन मित्यादि। भगन्दरे सर्वस्मिन् विरेचनं, नाडीभावं गते एषणं शलाकया कृला, पाटनं शस्त्रेण, ततो व्रणशोधनभेषजेन विशुद्धमार्गस्य पाटितभगन्दरव्रणस्य' तप्ततैलेन दाहः। शस्त्रभीरूणामस्य नाडीभावमापन्नस्य क्षारसूत्रेण सुपाटितस्य तथा भिन्नस्य नाड़ीभाव मनापन्नस्य चास्य भगन्दरस्य व्रणव चिकित्सा काय्यो ॥ ५९॥
गङ्गाधरः-श्लीपदमाह-जङ्घास्वित्यादि। जङ्घायाः पश्चाद्भागः पिण्डी। जवादिप्रदेशे मांसकफास्रदोषाद यः शोथस्तत् श्लीपदं नाम स्यात्। तस्य
चक्रपाणिः-क्रिम्यस्थीत्यादिना भगन्दरं पञ्चविधमपि इह संक्षेपात् सामान्येनाह। एषणं शलाकया गत्यवेक्षणं, क्षारसूत्रेण सुपाचितेन छिन्नस्येत्यनेन शल्यतन्त्रोक्तं क्षारसूविधानविधि दर्शयति। प्रपञ्चस्त्विह पराधिकारत्वेन न कृतः। सुपचितेनेति सम्यग्विपाचितक्षारेण ॥ ५ ॥
चक्रपाणिः--पिण्डीति मांसपिण्डी। प्रपदं पादाग्रम् । जङ्घास्विति बहुवचनं व्यक्तयपेक्षया किंवा बहुवचनेन जङ्घादिष्वित्यादि तललोपो ज्ञयः। उक्तं हि-शिश्नोष्टनासास्वपि केचिदाहुरित्यादि। तथाहि पुष्करावतः,-'नीवावलणज्वौष्ट-पादकर्णकराश्रयम् । श्लीपदं मांसदोभ्यां विद्यात्" इति ॥ ५९ । ६०॥
• क्रिमेस्तृणादीत्यत क्रिम्यस्थिसूक्ष्मेति चक्रसम्मतः पाठः । ___ + जङ्घासु पिण्डीषु पदोपरिष्टात् एतत् परिवर्त। जङ्घासु पिण्डीप्रपदोपरिष्टात् इति चक्रेण पठितम्।
For Private and Personal Use Only