________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
१२श अध्यायः
चिकित्सितस्थानम् ।
२८०६ वीसर्पशान्तौ विहिता क्रिया या तां तासु कुष्ठे च हितां विदध्यात् ॥ ५५ ॥ वृद्ध-+-ऽनिलाद्यवृषणे स्वलिङ्गरन्त्री निरेति प्रविशेन्मुहुश्च। मूत्रेण पूर्ण मृदु मेदसा चेत्
स्निग्धश्च विद्यात् कठिनञ्च शोफम् ॥ ५६ ॥ विरेचनाभ्यङ्गनिरूहलेपाः पक्वेषु चैव वणवचिकित्सा। स्यान्मूत्रमेदःकफजं विपाव्य विशोध्य सोव्यं व्रणवच पक्वम् ॥ ५७ पित्तकफाजायन्ते ता मसूरिकाः प्रदिष्टाः। आसां विस्फोटकादीनां चिकित्सामाह-विसपत्यादि । या क्रिया विसपशान्तौ विहिता तो क्रियां, कुष्ठे विहिता या क्रिया ताश्च क्रियां, तासु विस्फोटककक्षापिड़कारोमान्तिकामसूरिकासु विदध्यात् ॥५५॥
गङ्गाधरः-वृद्ध इत्यादि। अनिलादाः वृद्धे वृषणे उदरस्थः क्षुद्रोऽन्त्रः अनिलादीनां स्वलिङ्गैर्विशिष्टः सन् वृषणेऽण्डकोषे निरेति मुहुश्च प्रविशेदुदरम् इत्यन्त्रवृद्धिर्नाम ॥०॥ मूत्रेण पूर्ण मृदु च वृषणं फलकोषं मूत्रवृद्धिं नाम शोथं विद्यात् । मेदसा चेत् वृषणं वृद्धं स्यात् तदा तं शोर्फ वृषणं स्निग्धश्च कठिनञ्च विद्यात्। इति षड्विधा वृद्धिर्वातपित्तकफान्त्रमूत्रमेदोजा ॥ ५६॥
गङ्गाधरः-दृद्धीनां चिकित्सामाह-विरेचनेत्यादि । अपके विरेचनाभ्यङ्गनिरूहलेपाः। पक'षु चैव व्रणवचिकित्सा। तत्र विशेषमाह–स्यादित्यादि। व्याप्यस्थानमात्रन्यापकाः। स्फोटा एव कक्षा इति कक्षाशब्दाख्याः । प्रकीर्णा इति बहुविधजातिकाः। विसपत्यादौ तेष्विति स्फोटकक्षामसूराख्येषु विदारिकान्तरोक्तेष्वित्यर्थः ॥ ५५॥
पक्रपाणि:-अध्ने इत्यादौ वृषणे इति जातौ एकवचनं वृषणयोरपि ग्रहणम् । स्वलिङ्गैरिति वातलिङ्गः। एवं पित्तलिङ्गेन पैत्तिकं कफलिङ्गन कफज, बने ज्ञेयमित्यर्थः। अन्त्री निवृतिसह वृषणं प्रविशेदिति अन्सवृद्धिलक्षणम् । मूत्रेण तु यद् व्रनं तत पूर्ण मृदु च भवति। मेदसा तु कृतं स्निग्ध कठिनश्च। एवं षड़ विधं ब्रह्ममुक्तम् । तदिह पित्तजे एवान्तर्भावनीयम् ॥ ५६ ॥
चक्रपाणि:-विरेचनेत्यादिना सामान्यचिकित्सासूसमाह। मूवमेदाकफजानां वैशेषिकी चिकित्सोच्यते । विपाख्य विशोध्य च सीव्येत् । विपक्व अध्नं वणवदपचयर्थ सीव्येदिति भावः ॥१७॥
• तासु इत्यव तेषु इति चक्रेण पठ्यते । + वृद्ध इत्यत अध्ने इति चक्रः।
For Private and Personal Use Only