________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०८
चरक-संहिता। श्वयथुचिकित्सितम् ज्वरान्विता वङ्क्षणकक्षजाया वतिनिरर्तिः कठिनायता च । विदारिका सा कफमारुताभ्यां तासां यथादोषमुपक्रमः स्यात् । विसावणं पिण्डिकयोपनाहाः पश्वेषु चैव व्रणवचिकित्सा ॥५४॥ विस्फोटकाः सर्वशरीरगास्तु स्फोटाः सदाहा ज्वरतर्षयुक्ताः । यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु कक्षाः ॥ याश्चापराः स्युः पिड़काः प्रकीर्णाः स्थूलाणमध्या अपि पित्तजास्ताः। क्षुद्रप्रमाणाः पिड़काः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः। कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः॥
याः सर्वगात्रेषु मसूरमात्रा
मसूरिकाः पित्तकफात् प्रदिष्टाः । स रोगो मांसास्त्रदूषी चम्म नाम स्यात् ॥ ॥ ज्वरान्वितेत्यादि । या वत्तिरिव मूर्तिनिरतिरर्तिहीना ज्वरान्विता वङ्गणे कक्षे वा जायते कठिना चायता च सा वर्तिर्विदारिका नाम कफमारुताभ्यां जायते। तासामलजजीमांसास्रदूषिविदारिकाख्यानां शोथानां यथादोषमुपक्रमः स्यात् । तथा विसावणं शोणितस्य यवादीनां पिण्डिकया चोपनाहाः। एवं पक्केषु व्रणवञ्चिकित्सा स्यादिति ॥ ५४॥
गङ्गाधरः-ये स्फोटाः सर्वशरीरगाः सदाहा ज्वरेण तषण युक्तास्ते विस्फोटका नाम ॥०॥ यज्ञोपवीतेति । यथोपवीतिर्धार्यते तथा प्रभूताः पिड़का याः पित्तानिलाभ्यां जायन्ते ताः कक्षा नाम ॥॥ याश्चापराः पिड़काः प्रकीर्णाः शरीरव्याप्ताः स्थूलाणुमध्याः काश्चित् स्थूलाः काश्चिदण्व्यः काश्चिन्मध्यास्ता अपि पित्तजाताः पिड़का नाम ।।०॥ रुद्रप्रमाणाः पिडकाः शरीरे सङ्गिगाः सज्वरदाहतृष्णाः कण्डूयुताः सारुचयः सपसेकाश्च पित्तकफाज्जातास्ता रोमान्तिका नाम प्रदिष्टाः ॥ ० ॥ याः पिडकाः सर्वगात्रेषु मसूरमात्राः
चक्रपाणिः-धर्मनखान्तर इति चर्मनखसन्धौ। विदारिकेह कफवाताभ्यामित्युच्यते। सुश्रुते विदारिका सा सर्वजेति पटिता, सेनेहापि कफवाताधिका हीमपित्ता च विज्ञेया। सेषामित्यनेन विदारिकारोगान् प्रत्यवमृशति। विनावणमिति रक्तविनावणम् । पिण्डिकयेति पिटिकास्वेदेन ॥ ५५ ॥ चक्रपाणिः-स्फोटा इह कुक्ष्योक्तस्फोटाः रिरस्थायिनः। यज्ञोपवीतप्रतिमा इति यज्ञोपयोग
For Private and Personal Use Only