________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श अध्यायः
चिकित्सितस्थानम् ।
२८०७ स्थूलः खरश्चापि भवेद विवज्यों
यश्चापि बालस्थविराबलानाम् ॥ ५२ ॥ ग्रन्थ्यवदानाञ्च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदृष्यैः। ततश्चिकित्सेद भिषगर्बुदानि विधानविद ग्रन्थिचिकित्सितेन ॥५३ ताम्रा समूला पिड़का भवेद वा सा चालजी नाम परिख ताया। रोगः चतश्चर्मनखान्तरे स्यान्मांसास्त्रदृषी भृशशीघ्रपाकः ॥
ग्रन्थिं तथा गले मर्माणि च संश्रितं ग्रन्थिं विवर्जयेत्। स्थलः खरश्चापि ग्रन्थिर्विवर्त्यः स्याद, यश्च ग्रन्थिलिस्थविराबलानां भवति सोऽपि विवज्ज्यः स्यात्। इति ग्रन्थेरसाध्यलक्षणं न तु शोथानां ग्रन्थेः प्रकरणात्। कुशस्य रोगैरबलस्य यो भवेदित्यादिना पूर्वमेव शोथस्यासाध्यवसाध्यखलक्षणस्योलखात् ॥५२॥
गङ्गाधरः-अथाब्बुदचिकित्सामतिदेशेनाह-ग्रन्थ्यर्बुदानाञ्च इत्यादि। ग्रन्थीनामधं दानाञ्च यतः प्रदेशादिभिरविशेषस्ततो विधानविद् ग्रन्थिचिकित्सितेनाबं दानि चिकित्सेत् ॥ ५३॥
गङ्गाधरः-अथ पिड़कामाह-ताम्रत्यादि। समूला न या चलति प्रपीड़नेन सा समूला पिड़का। परिस्र तमग्रे यस्या अलजी नाम सा पिड़का। यस्मिन् रोगे चम्म नखान्तरे नखचाभ्यन्तरे क्षतः स्याद् भृशशीघ्रपाकः स्यात्
चक्रपाणिः-विवर्जयेदित्यादिनाऽसाध्यग्रन्थिभेदानाह ॥ ५२ ॥
चक्रपाणिः-अर्बुदचिकित्सातिदेशार्थमाह-ग्रन्थ्यर्बुदानामिति । अविशेष इव अविशेष इह ज्ञेयः। सुश्रुतेऽपि पृथक् ग्रन्थिलक्षणमुक्त्वाऽन्बु दलक्षणमुक्तम्-“गालप्रदेशे क्वचिदेव दोषाः संमूर्छिता मांसमसृक् प्रदूष्य । वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्धयपाकम् । कुर्वन्ति मांसोच्छ्यमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति”। तस्मात् स्तोकविशेषे सत्यपि स्त्रावाद्यविशेषात प्रन्थिविशेषचिकित्सैवातिदिश्यतेऽर्बुदे ॥ ५३ ॥
For Private and Personal Use Only