________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०६
चरक-संहिता। (श्वयथुचिकिस्सितम् संशोधिते स्वेदितमश्मकाष्ठैः साङ्गष्ठदण्डैर्विलयेदपक्वम् । विपाव्य चोवृत्य भिषक् सकोषं शस्त्रेण दग्ध्वा व्रणवचिकित्सेत्॥ अदग्ध ईषत्परिशेषितश्च प्रयाति भूयोऽपि शनैर्विवृद्धिम् । तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद वीक्ष्य शरीरदेशान्॥ शेषे कृते पाकवशेन शीय्येदतः क्षतोत्थः प्रसरेद विसर्पन् । उपद्रवं तं प्रविचार्य तज्ज्ञस्तैभेषजैः पूर्वतरैर्यथोक्तः ॥ निवारयेदादित एव यत्नाद विधानवित स्वस्वविधि विधाय। ततः क्रमेणास्य यथाविधानं व्रणं व्रज्ञस्त्वरया चिकित्सेत् ॥५१
विवर्जयेत् कुच्युदराश्रितञ्च
तथा गले मर्मणि संश्रितञ्च। गङ्गाधरः तेषां चिकित्सामाह-संशोधिते इत्यादि। ग्रन्थिमपक्वं पुरुषे धमनादिना यथार्ह संशोधिते स्वेदितं कृत्वा अश्मना काष्ठविशेषेण बलयाकारनिर्मलेनाङ्गुष्ठालिपीड़नेन वा दण्डैर्वा विलयेत् विलयं नयेत् । पक्व विपाट्य पाटयित्वा शस्त्रेण सकोपं वास्तुपर्यन्तमुदधृत्य दग्ध्वा व्रणवञ्चिकित्सेत् ॥ ॥ अदग्ध इत्यादि । यद्ययं ग्रन्थिः सकोषश्छिन्नोऽपि न दह्यते तदा भूयोऽपि शनै द्धिं प्रयाति । यदि पुनरीपत्परिशेषितश्छिद्यते दह्यते च तदापि भूयोऽपि विद्धिं प्रयाति। तस्मात् कुशल दैाः शरीरदेशान् मर्मादि. भेदेन वीक्ष्य समन्तादशेषो ग्रन्थिश्छेद्यो भवेत् । शेषे कृते छिन्ने पाकवशेन पाचयित्वा शीरयेत् । अतः क्षतोत्थः पुनर्विसर्पन् सन् प्रसरेत् । तमुपद्रवं शो वैद्यः पूर्वतरैयौ यो रोग उपद्रवः स्यात् तत्तद्रोगे यथोक्तभैषजः प्रविचाय्य तत्तदुपद्रवस्य स्वस्वविधानं विधाय निवारयेत् । तत उपद्रवप्रशमनानन्तरं क्रमेणास्य ग्रन्धिरोगिणो व्रणं व्रणशस्त्वरया चिकित्सेत् ।। ५१ ॥ . गङ्गाधरः-अस्यासाध्यलक्षणमाह-विवज्जयेदित्यादि। कुक्ष्युदराश्रितं इत्यर्थः। मेदोभवे नातिर्भवति। महान् प्रन्थिमांसभवो भवति। शोधित इति कृतशोधने पुरुषे । विलयेदिति विम्लापयेत् । सकोशमिति कोशत्रणम् उद्धत्य ततो दग्ध्वा व्रणवत् चिकित्सेत् । असम्यग्दग्धेऽपरिशोधिते च ग्रन्थौ दोषमाह। अदग्ध इत्यादि। स्वैर्भेषजैरिति विसर्पभेषजैः ॥ ५० ॥५१॥
For Private and Personal Use Only