SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः] चिकित्सितस्थानम् । २८०५ गलस्य पावें गलगण्ड एकः स्याद गण्डमाला बहुभिस्तु गण्डैः। साध्याः स्मृताः पोनसपार्श्वशूल-कासज्वरच्छर्दियुतास्त्वसाध्याः॥४८ तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम् । स्याल्लानं वक्तभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च ॥ ४६॥ अङ्गकदेशेष्वनिलादिभिः स्यात् स्वरूपधारी स्फुरणं सिराभिः। ग्रन्थिर्महान् मांसभवरत्वनतिमेंदोभवः स्निग्धतमश्चलश्च ॥५०॥ नाम प्रदिष्टः। दन्तमांसे शोणितसञ्चयोत्थः कफाद् यः शोथो भवेत् सा दन्तविद्रधी स्यात् ॥०॥ गलस्येत्यादि। गलस्य पावें यः शोथ एक एव स्यात् स गलगण्डो नाम स्यात् ।। ० ॥ गलस्य पायें बहुभिस्तु गण्डैर्गण्डमाला स्यात् । ता गण्डमालाः साध्याः स्मृताः। पीनसपाश्वशूलकासज्वरच्छर्दियुतास्तु असाध्याः ॥४८॥ गङ्गाधरः-एषां शालकादीनां चिकित्सामाह-तेषामित्यादि। तेषां शालकविद्रध्युपजिह्वाधिजिह्वोपकुशदन्तविद्रधीगलगण्डगण्डमालाख्यानां शोथानां सिराविरेकः सिरावेधेन रक्तमोक्षणं, कायविरेको वमनविरेचन, शिरोविरेको नस्तःकर्मविशेषः। वक्तभवेषु शोथेषु लङ्घनं प्रघर्षणं तत्तदोषहरद्रव्यस्य चर्णेन स्वरसेन तु कवलग्रहः ॥४९॥ गङ्गाधरः-अङ्गैकदेशेष्वित्यादि। अङ्गस्य शरीरस्येकदेशेषु कचित् कचित् स्थानजनलादिभिर्व्यस्तैः समस्तैर्महान् ग्रन्थिः स्यात् ; स्वरूपधारी येन दोषेण स्यात् तत्तदोषस्य स्वस्व लक्षणधारी स्यात् । तत्र वातिकः पैत्तिका श्लष्मिका सान्निपातिकः स्वस्खलक्षणधारी। सिराभिर्जाते ग्रन्थौ स्फुरणं स्यात्, मांसभवस्तु ग्रन्थिमहाननत्तिः स्यात् । मेदोभवो ग्रन्थिः स्निग्धतमश्च चलश्च। इति सप्तविधो ग्रन्थिः ॥५०॥ सुश्रतेऽप्युक्तम् । 'तत् सर्वथैवाप्रतिवार्यवीर्य विवर्जनीयं बलयं वदन्ति'। इयच तिदोषजापि रक्तपित्ताधिका ज्ञेया। उपजिविकेह त्रिशोथीयोक्तापि तखानुक्ता धिजिबिकाप्रसङ्गेनोका। साध्याः स्मृता इत्यादि पीनसादिरहिताः साध्याः। एते च साध्यासाध्यविभागादिभेदाः शिरःशोथादयः सर्व एव ज्ञेयाः। सिरा इति सिराव्यधः। विशेषचिकित्सात्र सुश्रुते प्रतिपत्तन्या ॥४८॥४९॥ चक्रपाणि:-अङ्गैकदेशेष्वित्यादिना ग्रन्थीनाह । स्वरूपधारीति वातेन वातलक्षणधारी, पित्तेन पित्तपक्षणधारी, कफन कफलक्षणधारी। मन्थिसंज्ञया प्रन्थ्याकारत्वं दर्शयति । स्फुरणो वेपमानश्च ३५२ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy