SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः] चिकित्सितस्थानम् । २७६६ पटोलमूलामरदारुदन्ती-त्रायन्तिपिप्पल्यभयाविशालाः। यष्ट्याह्वयं तिक्तकरोहिणी च सचन्दना स्यान्निचुलानि दार्वी ॥ कर्पोन्मितेस्तैः क्वथितः कषायो घृतेन पेयः कुड़वेन युक्तः। विसर्पदाहज्वरसन्निपात-तृष्णाविषाणि श्वयथुश्च हन्ति ॥ ३४॥ यमानिकाचित्रकधान्यपाठाः * सदीप्यकाषणवेतसाम्लाः। विल्वात् फलं दाडिमयावशके सपिप्पलीमूलमथापि चव्यम्॥ पिष्टाक्षमात्राणि जलाढकेन पत्तवा घृतप्रस्थमथ प्रदद्यात् । अशांसि गुल्मं श्वयथश्च कृच्छ निहन्ति वहिश्च करोति दीप्तम् ॥३५ पिबेद घृतञ्चाष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्। कल्याणकं वापि सपञ्चगव्यं तिक्तं महद वाप्यथ तिक्तकं वा ॥३६ __ गङ्गाधरः-पटोलेत्यादि। पटोलमूलादीनि दाय॑न्तानि द्वादश। तैः प्रत्येकं कर्पोन्मितसिंलिखा द्वादशकप॑श्चतुर्विशतिपलजले पक्त्वा चतुर्थांशावशेषः षटपलमितः कथितः कषायः कुड़वेन चतुःपलमितेन घृतेन युक्तः शोथिना पेयो यथानिब लम् । विसर्पत्याद्याशोः ॥ ३४ ॥ - गङ्गाधरः--यमानिकेत्यादि। वेतसाम्लोऽम्लवेतसः। विल्वादामं फलम् । दाडिमस्य फलखा। यमानिकादीनि चव्यान्तानि चतुर्दश कल्कीकृत्य जलादफेन घृतप्रस्थं पक्त्वा प्रदद्यात् । अशांसीत्याद्याशीः॥३५॥ यमानिकादिघृतम् । गङ्गाधरः-पिवेदित्यादि । सचित्रकक्षारमिति द्वयं कल्कीकृत्याष्टगुणेऽम्बुनि सिद्धं पकमुदारवीय्य शोथी पिवेत् । (चित्रकघृतम् ) | उन्मादोक्तं कल्याणकं घृतमथवा पश्चगव्यघृतमथवा महातिक्तकघृतमथवा तिक्तकघृतं शोथी पिबेदिति पूर्वणान्याः ॥ ६॥ घकपाणि:- पटोलमूलेत्यादौ क्वाथ्यद्रव्यपलवयम् अष्टगुणजलपरिभाषया क्वथनीयम् । ततश्चतुभांगावशेषेण षट्पलमानः कषायो भवति। उक्तं हि "कर्षादौ तु पलं यावद् दद्यात् षोड़शकं जलम् । ततश्च कुचं यावत् तोयमष्टगुणं भवेत्" इति ॥३४॥ क्रपाणिः-सचिक्षकेत्यादौ विल्वात् पलमिति पठन्ति । सन्मते विस्वं पळमानं शेषन्तु कार्षिकम् ॥३५॥३६॥ * "सचिलका धान्ययवानि पाठाः सदीप्यकत्यषवेतसाम्लाः" इति चक्रः । केचिदिदं चित्रकादि घृतं वदन्ति। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy