________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২৩
चरक-संहिता। (श्वयथुचिकित्सितम् द्विपञ्चमूल्यास्तु पचेत् कषाये कंसेऽभयानाच शतं गुडाच्च । लेहे सुसिद्धेऽथ विनीय चूर्ण व्योषं त्रिसौगन्ध्यमुषास्थिते च ॥ प्रस्थार्द्धमानं मधुनः सुशीते किश्चिच चूर्णादपि यावश्कात् । एकां ततः प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वय, प्रवृद्धम् ॥ श्वासज्वरारोचकमेहगुल्म-प्लोहत्रिदोषोदरपाण्डुरोगान् । काऱ्यांमवातावस्तृगम्लपित्त-वैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ ३३॥
सहरीतकी। गङ्गाधरः-द्विपञ्चमूलीत्यादि। द्विपञ्चमूली प्राधान्यादिह दशमूली। तस्या अष्टशरावं कंस आढके कषाये क्रियमाणेऽभयानां गुड़कशतमेकञ्च पोट्टले बद्धा क्षिप्ला पचेत् चतुर्थांशावशेषे खाड़के कपाये वस्त्रपूते तदभयाशतं छित्त्वा मध्यतोऽस्थीनि आहृत्य प्रक्षिप्य वर्षातीतगुडाच्च शतं पलानि दत्त्वालोड्य पचेत् । लेहे सुसिद्ध व्योषं त्रिसौगन्ध्यचूर्ण मिलिखा प्रस्था मात्र प्रत्येकं दशमाष काधिकपलमानं यावशूकात् किश्चिच्च कर्षमानं विनीयावतारयेत् उपास्थिते च सुशीते मधुनः प्रस्थाद्धमात्रं विनीय तत एकां हरीतकी ततश्च लेहात् शुक्तिमद्धेपलं प्राश्य श्वयथ विनिहन्तीत्याद्याशीः। यस्त्वेनां कंसहरीतकी व्याख्याय प्रतिसंस्कृत्य दशमूलीहरीतकीतिनाम्नोक्ता तत्र प्रमादन व्योषादीनां प्रस्थाद्धे. मात्रमित्यनेन अन्वयं न बद्धा तेषां मानमनुक्तं मत्वा पलादिमानं मानानुत्ते. रुक्तम् । यस्वार्ष दशमूलीहरीतकीवचनं मन्यते स पुनः कंसहरीतक्याः पृथगदशमूलीहरीतकीति अवश्यं ब्रूयात् ॥ ३३॥ सहरीतकी।
चक्रपाणिः-द्विपञ्चेत्यादौ निर्दिष्टत्वात् कंसः क्वाथ्याद भवति तावन्मानं दशमूलं चतुःपष्टिपलं ग्राह्यम्। अन्ये तु द्विपञ्चमूलस्य तुला कषाय इति। अभयानाञ्च शतम् । व्योषविसौगन्ध्ययोः माननिर्देशेन इहैवोक्तचूर्णमानानुसारेण मानं ज्ञेयम्। अगस्त्यहरीतक्यां गुड़तुलायां पिप्पलीचूर्णपल चतुष्टयमित्युक्तम् । तथा च्यवने मत्स्यण्डिकातुलायां पिप्पलीचूर्णपलद्वयमुक्तम् । तदिहापि गुड़शते व्योषस्य कटुव्यस्य पलचतुष्टयं तथा च्यवने चातुर्जातकस्य गन्धार्थस्य पलमुक्तम् । तदनुसारेणेह द्विपलं खिसौगन्ध्यम् । किञ्चिच्छब्दस्य अल्पवचनत्वात् असोक्तनागरादिचूर्णात् अर्द्धमानं ज्ञेयम् । केचित् तु किञ्चिच्छब्दं कर्षपर्याय वदन्ति तन्त्रान्तरप्रत्ययात्। बिसौगन्ध्यस्य प्रत्येक वर्षमानत्वं ज्ञेयम् खूपपण एव । क्षाराणान्तु प्रत्येक पलमुक्तम् । “दशमूलकषायस्य कसे पथ्याशनं गुड़ात्। सुला पचेत् तना दद्याद व्योषक्षारचतुःपलम् । त्रिसुगन्धस्य कषींशं प्रस्थाई मधुनो हिमे' इत्यादि ॥ ३३ ॥
For Private and Personal Use Only