________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८००
चरक-संहिता। वयचिकित्सितम् क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं स्वादु विमथ्य तेन । - तज्जं घृतं चित्रकमूलगर्भ तक्रण सिद्धं श्वयथुनमग्राम् ॥ अशांसि सामानिलगुल्ममेहांस्तद्धन्ति दीप्तश्च करोति वहिम्। तक्रण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा यवागूम् ॥३७
चित्रकघृतम्। जीवन्त्यजाजीशटिपोकाहः सकारवीचित्रकविल्वमध्यः । सयावशकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततलभृष्टा॥ अर्थोऽतिसारानिलगुल्मशोफ हृद्रोगमन्दाग्निहिता यवागूः । या पञ्चमूल-8-विधिनैव तेन सिद्धा भवेत् सा हि समा तयैव॥३८
गङ्गाधरः-क्षीरमित्यादि। चित्रकवचं पिष्ट्वा तेन घटेऽन्तरं लिप्ते क्षीरं दधिवीजं दत्त्वा स्थापयेत् तत् दधिभावमागतं मन्थानदण्डेन विमथ्य तज्जं घृतं चित्रकमूलं कल्कीकृत्य घृतगभ दत्वा तेन तक्रेण उद्धतघृतशेषतक्रेण चतुर्गुणेन सिद्धं पकमग्रं श्वयथुनमिति। अत्र कश्चित् तक्रमाणं नेच्छति यावतो दन उत्थितं यावद घृतं तावद घृतं तावता तक्रेण पादिकचित्रमूलकल्केन पचेदिति चाह। प्रयोगश्चास्यायम् । सघृतेनोत्सिद्धेनोक्तेन घृतेन सहितेन तेन च तक्रण भोज्यानि शोथी अद्यात् । अथवा तेन सिद्धेन घृतेन तेन च तक्रेण सिद्धां यवागू मण्डपेयाविलेपीनामन्यतमामद्यात् ॥३७ ॥
चित्रकघृतम्। गङ्गाधरः-जीवन्तीत्यादि। जीवन्त्यादियावशूकान्रष्टभिर्बदरप्रमाणे कोलप्रमाणेः कल्कैर्वा कषायर्वार्द्धभृतः मण्डपेयाविलेप्यन्यतमा यवागूढे क्षाम्लयुक्ताम्लकरणोपयुक्ततिन्तिडीफलाम्ला घृततेलभृष्टा अशोऽतिसारादिहिता। या यवागूः पञ्चभिः पञ्चमूलैः तेनैव विधिना कल्कैरर्द्धभृतैः कषायैर्वा तेनैव विधिना वृक्षाम्लयुक्ता घृततैलभृष्टा च सा तयैव समा अर्शआदिपूर्वोक्तरोगहिता भवेत् ॥३८॥
सकपाणिः-दध्यागतमिति दधिभावेन परिणतम् । नेनेति यथोक्तदधिमथनजातन तक्रेण ॥ ३७
चक्रपाणि:-जीवन्तीत्यादी बदरप्रमाणैरिति द्विशाणिकः। विधिनैव तेनेत्यत बदरमानत्वं द्रव्याणां ज्ञेयम् ॥३८॥
* या पत्रकोलैरिति पाठान्तरम् ।
For Private and Personal Use Only