________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६६
चरक-संहिता। श्वयथुचिकित्सित हन्यात् त्रिदोषं चिरजञ्च शोफ कल्कश्च भूनिम्बमहौषधाभ्याम् । अयोरजस्ाषणयावशूकं चूर्णश्च पीतं त्रिफलारसेन ॥ २६ ॥ क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च। सपिप्पलीमूलविङ्गसारं मुस्ताजमोदामरदारुविल्वम् ॥ कलिङ्गका चित्रकमूलपाठे यष्टाह्वयं सातिविषं पलांशम् । सहिङ्गकर्षन्तु सुसूक्ष्मचूर ® द्रोणं तथा मूलकशुण्ठकानाम् ॥ स्याद् भरमनस्तत्सलिलेन साध्यमालोड्य यावद्धनमप्रदग्धम् । स्त्यानं ततः कोलसमान्तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्जयात् ॥ प्लोहोदरश्वित्रहलीमकार्शः-पाण्डामयारोचकशोषशोफान् । विसूचिकागुल्मगराश्मरीश्च स श्वासकासान् प्रणुदेत् सुकष्टान्॥३०
इति क्षारगुडिका। पीतं त्रिदोष शोफ हन्यात् । भूनिम्बमहौषधाभ्यां कल्कश्च सुखतोयपीतस्त्रिदोष शोफ निहन्यात् । अयोरज इत्यादि । अयोरजो मारितपुटितलौहं पञ्चद्रव्यपूर्ण त्रिफलारसेन पीतं हन्यात् त्रिदोषमित्याद्याशीः॥२९॥
गङ्गाधरः-क्षारद्वयमित्यादि। मूलकशुष्ठकानां शुष्कमूलकानि दग्ध्या तेषां भस्मनो द्रोणं द्वात्रिंशच्छरावमष्टगुणे तोये पक्त्वा चतुर्थांशशेषितं वस्त्रे पुनरेकविंशतिवारं परिस्राव्य तत्सलिलेन क्षारद्वयादीनां प्रत्येकं पलांश मुपेक्ष्मचूर्ण घृतभृष्टहिङ्गचर्णकर्षसहितमालोड्य साध्यं, तावत् पक्तव्यं यावत् घनश्च अपदग्धश्च स्यात् । ततः स्त्यानं घनं तत् कोलसमां मात्रां गुड़ि का कृत्वा सुशुष्का विधिना उपयुञ्जयात् । प्लीहेत्याद्याशीः। यस्तु क्षारोदकं पक्त्वा घनीभूते क्षारद्वयादिकं पक्षिप्य गुड़िकां कृत्वा व्यवहरति, तदसङ्गतम् -तत् सलिलन साध्यमालोज्योति वचनात् । “सौवच्चलं सैन्धवञ्च विड़मोद्भिदमेव च। चतुर्लवणमत्र स्याजलमष्टगुणं मतम् । पानीयो यस्तु'गुल्मादौ तं वारानक
चक्रपाणिः-पिप्पल्याद्य चण-प्रत्येकं मिलितैर्वा । त्रिदोषमिति वातादिभिर्जनितम् इति ज्ञेयम् । न चान त्रिदोषस्यासाध्यत्वं युक्तम् ॥ २९ ॥
चक्रपाणिः-वत्वारि लवगान सामुद्रवर्ज दीर्घजीवितीयोक्तानि। अल शुष्कर्णम् इति सूक्ष्मचूर्ण ग्राह्यम्। अब जलमानमपि चूर्णचतुर्गुणं देयम् । स्त्यानमिति घनम् ॥ ३०॥ • सहिङ्गुकर्ष त्वणुशुष्कचूर्णमिति चक्रानुमतः पाठः ।
For Private and Personal Use Only