________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२श अध्यायः] चिकित्सितस्थानम् ।
२७६५ शाखानिलं बद्धपुरोषताञ्च हिकां किलासश्च हलीमकञ्च। क्षिप्रं जयेद् वर्णबलायुरोजस्तेजोऽन्वितो मांसरसान्नभोजी ॥२६॥
पुनर्नवायरिष्टः। फलत्रिकं चित्रकपिप्पली च सदीप्यकं लोहरजो विडङ्गम् । । चूर्णीकृतं कौड़विकं द्विरंशं क्षौद्र पुराणस्य तुलां गुड़स्य । मासं निदध्याद घृतभाजनस्थं यवेषु तानेव निहन्ति रोगान् ॥२७
फलत्रिकाधरिष्टः। ये चार्शसां पाण्डुविकारिणाश्च
प्रोक्ता हिताः शोफिषु तेऽप्यरिष्टाः ॥ २८ ॥ कृष्णा सपाठा गजपिप्पली च निदिग्धिका चित्रकनागरश्च । सपिप्पलीमूलरजन्यजाजी-मुस्तञ्च चूर्ण सुखतोयपीतम् ॥ काले व्याधिवलं समीक्ष्य पिबेत् । हृत्पाण्डुरोगादिकं क्षिप्रं जयेत् । मांसरसानभोजी शोथी वर्णाद्यन्वितो भवतीति शेषः ॥२६॥ पुननेवारिष्टः ।
गङ्गाधरः-फलत्रिकमित्यादि । लौहरजो मारितपुटितं लौहम् । फलत्रिकादीनामष्टानां चण मिलितं कौड़ विकं क्षौद्रं द्विरंशं द्विकुड़वं पुराणस्य संवत्सरातीतस्य गुडत्य तुलामेकीकृत्य घृतभाजनस्थं यवेषु यवराशिमध्ये मासं त्रिंशदिनं निदध्यात्। जातं तदरिष्टं तान् हृत्पाण्डुरोगादीन् रोगान् निहन्ति ॥२७॥
फलत्रिकारिष्टः। गङ्गाधरः-ये चार्शसामित्यादि। ये चारिष्टा अर्शसां पाण्डविकारि. णाश्चारिष्टाः प्रोक्तास्तेऽप्यरिष्टाः शोफिषु हिता भवन्ति ।। २८ ।।
गङ्गाधरः-इत्यरिष्टानुक्त्वा शोफ चर्णमाह-कृष्णत्यादि। कृष्णा पिप्पली, अजाजी जीरकम् । कृष्णादिमुस्तान्तं दशद्रव्यं चूर्ण कृता सुखोष्णतोयेन यवराशो। क्षौद्रघृतप्रदिग्धे कुम्भे कृत्वा मासं स्थाप्यमिति ज्ञेयम् । विंवा क्षौद्रघृतप्रलिप्तसुगन्धे भाजने कृत्वा पचेत् । षड़ जठराणां भेषजासाध्यच्छिद्रोदको वर्जयित्वा ॥२६॥
चक्रपाणिः-फलत्रिकमित्यादौ द्विपस्थे त्रिफलादीनां चतुर्गुणं जलं दत्त्वा पादावशेषः, कषायान्तरोक्तोऽपि आसवान्तरे इष्टत्वात् ३यः। चूर्णीकृतमिति कषायार्थ जर्जरीकृतम् । अन्ये तु चूर्ण एव द्रोणाः परं जलं ददति । किंवा कुड़वमानर चूर्णस्य देयम्, तेन द्विरं सौमिति द्विकुड़वं पोडशपलमिति यावत् ॥ २७ ॥ २० ॥
For Private and Personal Use Only