________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६४
चरक-संहिता। [श्वयथुचिकित्सितम् सप्ताहमुष्णे द्विगुणन्तु शीते स्थितं जलद्रोणयुतं पिबेन्ना। शोथान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टोऽष्टातोऽग्निकुञ्च ॥२५
- अष्टशतोऽरिष्टः। पुनर्नवे द्वे च बले सपाठे वासा गुड़ चो सह चित्रकेण । निदिग्धिका च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तु॥ पूत्वा रसं द्वे च गुड़ात् पुराणात् तुले मधुप्रस्थयुतं सुशीतम् । मासं निदध्याद घृतभाजनस्थं पणे यवानां परतश्च मासात् ॥ चूर्णीकृतैर पलांशिकैस्तं हेमत्वगेलामरिचाम्बुपत्रः । गन्धान्वितं क्षौद्रघृतप्रदिग्धं जीणे पिबेद व्याधिबलं समोक्ष्य ॥ हृत्पाण्डुरोगं श्वयथं प्रवृद्धं प्लीहवरारोचकमेहगुल्मान् । भगन्दरं षड् जठराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः॥
सर्व तज्जलद्रोणयुतं गोलयिता मधुना प्रलिप्ते कुम्भे उष्णकाले वंशाखादिषु षट्सु मासेषु सप्ताहं स्थितं शीते कात्तिकादिषु पदसु मासेषु द्विगुणं चतुदशाह स्थितं ना नरः पिबेत् ॥२५॥
काश्माद्यारिष्टः। __ गङ्गाधरः-पुनर्नवे इत्यादि । द्वे पुनर्नवे । वे बले। पुननेवादिनिदिग्धिकान्तानि नव द्रव्याणि प्रत्येकं त्रिपलानि क्षोदयित्वा चतुर्दोणे सलिले पक्त्वा द्रोणावशेषे सलिले तं रसं पूखा तत्र पुराणाद गुड़ाद द्वे तुले मिश्रयिखा तत् सुशीतं यदा स्यात् तदा मधुप्रस्थयुक्तं चतुःशरावमधुयुक्तं घृतभाजनस्थं मासं त्रिंशदिनं यवानां पर्णे पर्णमध्ये तदघृतभाजनमाच्छाद्य निदध्यात्। मासात् परतश्च तं रसं हेमादिकैश्चूर्णीकृतैः प्रत्येकमर्चपलांशयुक्तं गन्धान्वितं पुनश्च क्षौद्रघृतप्रदिग्धं मानानुक्ते पूर्वोक्तमानमत्र मधुनः प्रस्थं तत्साहचर्य्यात् पुगणगव्यघृतस्यापि प्रस्थमेकीकृत्य दालोड्य प्रदिग्धं जोणे पूर्व दिनाहारे प्रातः
चक्रपाणिः-काश्मयंत्यादौ उष्ण इत्युष्मकाले, द्विगुणमिति द्विसप्ताहं शीतकाले स्थाप्यम् । अष्टपात इति संज्ञा काश्मर्यादिसप्तशतं मेलयित्वा कृतत्वाज़ज्ञ या ॥२५॥
चक्रपाणिः-पुनर्नवे द्वे इत्यादौ प्रत्येक द्रव्याणां विपलिकत्वम्। द्रोणावशेषविधानाच चतुर्दोणं जलस्य ज्ञेयम्। तथाहि सति (यदि ) शेषेण द्रोणः काथो भवति। यवानामिति
For Private and Personal Use Only