________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः
चिकित्सितस्थानम् ।
२७६३ विड़ वातसङ्गे पयता रसैर्वा प्रागुक्तमद्यादुरुबूकतैलम् । स्रोतोविबन्धेऽग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान् ॥२३ गण्डीरभल्लातकचित्रकाश्च व्योषं विङ्ग वृहतीद्वयश्च । द्विप्रास्थिकं गोमयपावकेन द्रोणे पचेत् कूर्चिकमस्तुनस्तु ॥ त्रिभागशेषन्तु सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना च। सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलोभ्याम् ॥ वैहायसे स्थापितमा दशाहात् प्रयोजयंस्तद् विनिहन्ति शोफान्। भगन्दराशःक्रिमिकुठ मेहं वैवर्ण्यकार्यानिलहिकनञ्च ॥ २४ ॥
गण्डीराधरिष्टः। काश्मय॑धात्रीमरिचाभयाक्ष-क्षुद्राफलानाञ्च सपिप्पलोनाम् । शतं शतं चौद्रगुड़ात् पुराणात् तुलान्तु कुम्भे मधुना प्रलिप्ते ॥
गङ्गाधरः--विड्वातेत्यादि। यस्य शोथिनो विड़धोवातश्च न निःसरति स उरुवूकतैलं पयसा ग्राम्याब्जानूपमांसभिन्नमांसरसैर्वा पिवेत् प्रागुक्तश्च गुडाभयं गुड़नागरं वाद्यात्। शोथी मलबहस्रोतोविबन्धेऽनिरुचिप्रणाशे च मद्यानि पिबेत्। सुजातानरिष्टांश्च पिबेत् ॥२३॥ . गङ्गाधरः-मद्यप्रसिद्धम्। अरिष्टं पुनराह-गण्डीरेत्यादि। गण्डीरः समठः। गण्डीरादीनि नव द्रव्याणि मिलिखा द्विमास्थिकं कुट्टयित्वा कूर्चिकमस्तुनो द्रोणे चतुःषष्टि शरावे गोकरीषाग्निना पचेत् । कूर्चिकं द्विविधं तक्रकूर्चिकं दधिकूर्चिकश्च । “तप्ते पयसितक्रस्य प्रक्षेपात् तक्र कूर्चिकम् । दध्नोऽम्लस्य तु प्रक्षेपाज्जायते दधिकूच्चिकम् ।” पाकेन तृतीयांशावशेषे तत् कथितं कच्चिकमस्तु प्राकृतमस्तुना दधिमस्तुना द्रोणमितेन सह सितोपलाशतपलेन च सह युक्तं चित्रकपिप्पलीभ्यां पिष्टाभ्यां लिप्ते घृतभावितघटे निक्षिप्य वैहायसे शुन्यभागे दशाहपर्यन्तं स्थापयेत् ॥२४॥ गण्डीराधरिष्टः ।
गङ्गाधरः-काश्मय्येत्यादि । काश्मयं गम्भारीफलम् । काश्मरीक्षुद्रान्तानां षण्णां फलानां पिप्पल्याश्च प्रत्येकं शतं शतं गुड़क पुराणात् क्षौद्रगुड़ात् तुला
चक्रपाणिः-कुर्चिकमस्तुन इत्यस दना सह पयसि पक्वं यन्मस्तु तत् कुर्चिकमस्तु । केवलस्य दभो यन्मस्तु तत् प्राकृतमस्तु। वैहायसे इत्यन्तरिक्षे ॥ २३ ॥ २४ ॥
For Private and Personal Use Only