________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६२ चरक-संहिता।
[श्वयचिकित्सित सशुण्ठिपोतद्रु रसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा। त्वगदारुवर्षाभुमहौषधैर्वा गुड़ चिकानागरदन्तिभिर्वा ॥ २० ॥ सप्ताहमौष्ट्रन्त्वथवापि मासं पयः पिबेद भोजनवारिवर्जी। गव्यं समूत्रं महिषीपयो वा क्षीराशनो मृत्रमथो गवां वा ॥२१॥ तक रिबेद् वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकञ्च । गुड़ाभयां वा गुड़नागरं वा सदोषभिन्नामविबद्धवर्चाः ॥ २२ ॥
दत्त्वा शृतं तत् पयः शोथहरं नरः पिबेत् । तैर्दन्त्यादिभिः प्रत्येकं पलार्द्धकः पयो द्विप्रस्थमात्रमष्टशरावं निज्जेलं पक्त्वाविशिष्टं तत् पयः सपित्ते पवने शोथे पिवेना ॥१९॥ ___ गङ्गाधरः-सशुष्ठीत्यादि। शुष्ठीपीत रसं संयोज्य पयः प्रयोज्यम् । पीतारुह रिद्रा। काथविधिना द्वयं निःकाथ्य तद्रसं दुग्धेन समेन संयोज्य पिवेत्। अथवा श्यामादिसाधितं पयः प्रयोज्यम् । श्यामा त्रिवत् । पयसोऽष्टमांशम् । श्यामादित्रयं चतुर्गुणजले पक्त्वा तत् पयः प्रयोज्यं सपित्ते पवने । खगादिभिर्वा साधितं पयोऽथवा चिकादिभित्रिभिः साधितं पयः प्रयोज्यम् ॥२०॥
गङ्गाधरः-सप्ताहमित्यादि । औष्ट्र (मांसम्) अथवा पयः केवलं सप्ताहं मासं वा सपित्ते पवने शोथी भोजनवारिवी पिबेत् । अथवा गव्यं पयो गोमूत्रसहितं भोजनवारिवी सप्ताह मासं वा पिबेत् । अथवा भोजनवारिवी गोमूत्र सहितं महिषीपयः सप्ताहं मासं वा सपित्ते पवने पिबेत् । अथवा गवां मूत्रं गवां क्षीरेणान्नाशनः सप्ताहं मासं वा वारिवी पिबेत् ॥२१॥
गङ्गाधरः-तक्रमित्यादि। गुरुभिन्नवर्चाः शोथी सव्योषचर्णादिकं गव्यदुग्धजाततकं पिबेत् । अथ सदोषभिन्नामविबद्धवाः शोथी गुड़ामयां समगुड़मभयाकल्कं भक्षयेदथवा समगुड़नागरकलं भक्षयेत् ॥ २२ ॥
चक्राणि:-पीतद् देवदारुः। ऊषणं मरिचम् ॥ २० ॥
चक्रपाणिः-भोजनवारिवीति भोजनं वारि च त्यक्तव्यमित्यर्थः । गव्यमित्यादावपि गवां मूत्रमित्यन्तेन सप्ताहं मासमेवेति च तथा भोजनवारिवर्जीति चानुवर्तयति। समूत्रमित्यत्र मूलसमः। क्षीराशन इति संबध्यते ॥२१॥२२॥
For Private and Personal Use Only