________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८६ चरक-संहिता।
[श्वयथुचिकित्सितम् सर्वाङ्गैः सव्वगतैः क्वचित्स्थै
दोषः क्वचित् स्यात् श्वयथुस्तदाख्यः ॥ ६ उष्मा तथा स्याद् दवथुः सिराणामायाम इत्येव च पूर्वरूपम् । सर्वस्त्रिदोषोऽधिकदोषलिङ्गस्तच्छब्द-8-माप्नोति भिषगजितश्च॥७ सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माथ सिरातनुत्वम् । सलोमहर्षाङ्गविवर्णता च सामान्यलिङ्ग श्वयथोः प्रदिष्टम् ॥८॥
स्थितैः दोषैरधःश्वयथर्नाम। मध्यगतैरन्तराधिस्थितः दोषैर्मध्ये श्वयथुः स्यात स च मध्यश्वयथुर्नाम। सर्वगतैः सर्वाङ्गगतैर्दोषैः सर्वाङ्गगः श्वयथुनाम । इत्येवं यत्र कचित्स्थैदोषैः यत्र कचिदने श्वयथुः स्यात् स च श्वयथुस्तदाख्यस्तत्तदङ्गश्वयथुर्नाम स्यादिति ॥६॥
गङ्गाधरः-श्वयथुपूर्वरूपमाह-उष्मा तथेत्यादि। शरीरस्योष्मा भवति, तथा दवथुरुपतापः स्यात्, सिराणामायामो दीर्घाभावः स्यादित्येव च श्वयथोः पूर्वरूपं स्यात्। सः श्वयथुत्रिदोषस्तत्र यः श्वयथुर्यस्य दोषस्याधिकलिङ्गो भवति स तदधिकदोषलिङ्गैस्तच्छब्दं तद्दोषजसंज्ञामानोति। भिषगजितमौषधश्च तदधिकदोपहरणमामोति प्रतिक्रियायामिति ॥७॥
गङ्गाधरः-सगौरवमित्यादि। अनवस्थितत्वं शोथस्य गौरवश्च सोत्सेधश्च उष्मा चाङ्गस्य सिराणां तनुखश्च कृशत्वं लोमहर्षश्चाङ्गविवर्णता च सर्चस्मिन् श्वयथौ भवतीति श्वयथोः सामान्यलिङ्गमिदमिति ॥ ८॥ पक्वाशयमध्यगतैः। क्वचिदिति कण्ठताल्वादिदेशे। तदाख्य इति गलशोथ इति शब्दाख्य इति । किंवा ऊर्द्धशोथाधःशोथ इत्यादिशब्दाख्य इति सर्वत्र योजनीयम् ॥ ६॥
चक्रपाणिः-उष्मेत्यादिना पूर्वरूपमाह। दवथुस्तापः । तथेति चक्षुरादिभ्यः । सिराणामायाम इति सिराप्रसरणम्। सर्वशोथानां त्रिदोषजत्वेऽपि वातजादिव्यपदेशो वातजा चिकित्सा यथा भिन्ना भवतीति निर्देष्टुमाह-सर्व इत्यादि। अधिकानि वाधिकस्य दोषस्य लिङ्गानि इत्यधिकदोषलिङ्गः। तत्संज्ञमिति अधिकदोषसंज्ञं वातजोऽयमित्यादिकं प्राप्नोति, तदा भिषाजितश्चाधिकदोपलिङ्गः प्राप्नोति। अधिकदोषलिङ्गप्रयुक्त चिकित्सितभेदं प्राप्नोति इत्यर्थः ॥७॥
चक्रपाणिः-सगौरवमित्यादिना सामान्यलिङ्गं पठति ॥८॥ * तत्संज्ञमिति चक्रतः पाठः ।
For Private and Personal Use Only