________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८७
१२ अध्यायः] चिकित्सितस्थानम्।
चलस्तनुत्वक परुषोऽरुणोऽसितः प्रसुप्ति-छ-हर्षार्तियुतोऽनिमित्ततः। प्रशाम्यति प्रोन्नमति प्रपीड़ितो दिवा बली च श्वयथुः समीरणात् ॥ ६ ॥ मृदुः सगन्धोऽसितपीतरागवान भ्रमज्वरस्वेदतृषामदान्वितः। य उष्यते स्पर्शरुग-+-विरागकृत् स पित्तशोथो भृशदाहपाकवान् ॥ १०॥
गङ्गाधरः-चल इत्यादि। समीरणात् वाताधिकत्रिदोषाज्जातः श्वयथश्चलः स्थानात् स्थानान्तरं चलति। अरुणो वाऽसितो वा। प्रसुप्तिः स्पर्शबोधाभावः। हषः शोथस्थानहर्षः। अतिवेदना। तैयुक्तः स्यात् । अनिमित्ततः प्रशाम्यति। प्रपोड़ितोऽङ्गल्यादिना प्रपीड़ने निम्नः सन्नचिरादुन्नमति । दिवा बली बलवान् भवति रात्रौ प्रशाम्यतीति ॥९॥
गङ्गाधरः-मृदुरित्यादि। यः शोथो मृदुः, शरीरसमगन्धः, असितपीतरागवान, भ्रमाद्यन्वितः, उष्यते उष्णः, स्पर्शे रुग यत्र, अक्षिरागकृत, भृशदाहवान् भृशपाकवान् स पित्तशोथः॥ १०॥
चक्रपाणिः-चल इत्यादिना वालिङ्गमाह । तनुत्वगित्यबहलत्यक्। असित इति कृष्णः। सुषुप्तिः स्पर्शाज्ञानम्। हर्षो रणरणिकेति ख्याता वेदना, किंवा रोमहर्षः । अनिमित्ततः प्रशाम्यतीति वायोश्चलस्वेन कदाचित् निमित्तेन विनापि लीनो भवति। केचित् निमित्तत इति पठन्ति, तेन स्नेहोष्णमर्दनादिना प्रशाम्यति, स च वातिक इति। प्रोममतीति सम्पीड़नानन्तरमेवोन्नति ॥९॥
चक्रपाणिः-मृदुरिस्यादिना पित्तशोथमाह । सुष्यत इति दयते। अस्पर्शसह इति स्पर्शनं ने सहते ॥१०॥
• प्रसुप्ति इत्यत्र सुषुप्ति इति चक्रः । + स्पर्शरुगिन्यत्र अस्पर्शसहः इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only