SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८४ चरक-संहिता। {श्वयथुचिकित्सितम् शुद्धयामयाभक्तकुशाबलानां नाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृच्छाकविरोधिदुष्ट-गरोपस्पृष्टान्ननिषेवणश्च ॥ अशांस्यचेष्टा न च देहशुद्धिर्मम्मोपघाता विषमा प्रसूतिः। मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः ॥४ गङ्गाधरः-शुद्धग्रामयेत्यादि। शुद्धिर्वमनादिः, आमयो रोगः, अभक्तमनन्नम् ; तः कृशानामबलानाञ्च क्षारादिसेवा श्वयथोहेतुः। एवं शुद्धग्रामयाभक्तकशाबलानामिव दध्यादिनिपेवणश्च कश्चित्। शुद्धग्रादिकृशाबलानां क्षारादिसेवा श्वयथोहतुः। दध्यादिनिषेवणञ्च तदितरस्य जनस्य श्वयथोहेतुरिति । अन्नस्य दध्यादिप्रत्येकेनोपसृष्टत्वम् । आममृद् अपकमृत् । विरोधिद्रव्यैः क्षीरमत्स्यादिभिरुपसृष्टान्नम्। दुष्टं स्वगुणव्यापन्नं वातातपजलादियोगात्। गरं संयोगविषम्। अन्यरोगैः कृशानामबलानाश्च क्षारादिसेवा श्वयथुहेतुरणांसि तु स्वयमेव श्वयथुहेतुः । अचेष्टा निष्क्रियता, न च देहशुद्धिर्मलसञ्चये सति कर्त्तव्यायां देहशुद्धौ न च देहशुद्धिः क्रियते। मम्मोपघातः सप्तोत्तरमर्म शतस्यान्यतमोपघातो वाह्यहेतुदण्डादिभिरेव, तेन दोषकोपात् श्वयथुर्भवति। त्रिशोथीये सर्वेषां शोथानां दोषत्रयजेषु त्रिष्वेवान्तर्भाववचनात्। तद्यथा-"त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः। ते पुनर्द्विधा निजागन्तुभेदैन” इति। आगन्तुशोथो यद्यपि यथास्वं हेतुजैर्व्यञ्जननिजव्यञ्जनैकदेशविपरीतैरादावुपलभ्यते इत्यत आगन्तुज उच्यते, पश्चादवश्यं यथावदोषैरनुवध्यत एवेति त्रय एव शोथा भवन्ति । तस्मादिह मम्मोपघातो नाभ्यन्तरदोषकृतः। इहापि वातादिभेदात् त्रिविधस्येति वचनात् । दण्डाद्यभिघातस्तु य आगन्तुशोथस्य हेतुः, स वाह्यत्वचो दूषयिता वक्ष्यतेऽत्रैव । ततः शोथस्तत्क्षणमेव जायतेऽयन्तु मम्मौपघातः शोथं न कुर्वन्नादौ दोषं कोपयति ततो दोषः श्वयधुं करोतीति । विषमा प्रसूतिरकाले गर्भप्रसवः । चक्रपाणिः-शुद्धिर्वमनादि शोधनम्, आमया ज्वरादयः, अभक्तमभोजनं विगुणञ्च भोजनं विरुद्धं भोजनं तैः कृशानामबलानाञ्च क्षारादिसेवा निजस्य श्वयोर्हेतुरिति योज्यम् । दध्यादि तु स्वतन्त्रमेव हेतुः। आममपक्व, दुष्टं दोषकारकम् । न च देहशुद्धिरिति शोधनाहऽपि दोषे देहाशुद्धिः। मोपघात इह दोषकृत एव ज्ञेयः। वाह्यहेतुजस्तु मम्र्मोपधात आगन्तुहेतुरेव । विषमा प्रसूतिरकालगर्भपतनादिका। प्रतिकर्मणामिति वमनादीनाम । मिथ्योपचार इति असम्यगुपचारः॥४॥. For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy