________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशोऽध्यायः। अथातः श्वयथुचिकित्सितं व्याख्यास्यामः,
___ इतिह स्माह भगवानात्रेयः ॥ १॥ भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्द्रमत्रात्मजमग्निवेशः। महागदस्य श्वयथोर्यथावत् प्रकोपचिह्नप्रशमानपृच्छत् ॥ २॥ तस्मै जगादागदवेदसिन्धुः प्रवर्तनाद विप्रवरो-8-ऽत्रिजस्तान् । वातादिभेदात् त्रिविधस्य सम्यनिजानिजैकाङ्गजसर्वजस्य ॥३
गङ्गाधरः-चिकित्सितोद्देशानुक्रमात् क्षतक्षीणचिकित्सितादनन्तरं श्वयथुचिकित्सितमाह-अथात इत्यादि। पूर्ववत् सर्च व्याख्येयम् ॥१॥
गङ्गाधरः-पुरावृत्तमाह-भिषगवरिष्ठमित्यादि। सुरसिद्धाभ्यां जुष्टं सेवितम् । अन्यात्मजं कृष्णात्रिपुत्रं पुनर्वसुं गुरु शिष्योऽग्निवेशो महागदस्य श्वयथोः प्रकोपचिह्नप्रशमान यथावत् प्रणामादिपूर्वकमपृच्छत् ॥२॥
गङ्गाधरः-तस्मै इत्यादि। तस्मै शिष्यायाग्निवेशाय। तेन प्रवत्तनात् तान् श्वयथोर्वातादिभेदात् त्रिविधस्य निजानिजैकाङ्गजसङ्गिजस्य सम्यक् प्रकोपणादीन् अगदवेदसिन्धुरायुर्वेदसिन्धुरत्रिजो विप्रवरो जगाद ॥३॥
चक्रपाणिः-श्रतक्षीणे मर्मोपघातो भवति, शोथेऽपि मर्मोपघातः कारणं, तेन समानहेतुतया क्षतक्षयमनु शोथचिकित्सितमुच्यते। जुष्टमिति सेवितम्। प्रकोपयतीति प्रकोपो हेतुरित्यर्थः । किंवा कार्यकारणयोरभेदोपचारात् प्रकोपशब्देन श्वयथकारणमुच्यते। रूपशब्देन रूपपूर्वरूपयोः ग्रहणम्, तेन सर्वत्वगाश्रितत्वेन तच्छमनं चिकित्सोच्यते ॥ १॥२॥
चक्रपाणिः-अगदार्थ आरोग्यार्थो यो वेदोऽगदवेदः, स एव गम्भीरप्रसन्नत्वात् सिन्धुरिष सिन्धुस्तस्य प्रवर्तनेऽद्रिप्रवरो हिमालय इव इत्यर्थः। यथा हिमालयो नङ्गायाः प्रवर्तकस्तथा अतिजोऽपि अग्निवेशप्रवर्तक इत्यर्थः। तानिति प्रकोपादीन्, यान् शिष्यः पृष्टवान् । एकाङ्गजसर्वजस्येत्यत्र सर्वजशब्देन सर्वशरीरस्य ग्रहणं कर्तव्यम्, एकागजशन्देन । सामान्येन शरीराव्यापकस्य ग्रहणम् ; तेन सर्वागावावयवाश्रितत्वं यत् वैविध्यं वक्तव्यं तत्रैकाङ्गजेनार्द्धगाताश्रितावयवादिग्रहणं कर्त्तव्यम् ॥३॥
• प्रवर्तनाद्रिप्रवरः इति चक्रः।
For Private and Personal Use Only