________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ] . चिकित्सितस्थानम् ।
२७८१ यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु। अन्नपानं निषेव्यं तत् क्षतक्षीणैः सुखार्थिभिः॥ यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम् । तच कुऱ्यांदवेक्ष्याग्निं व्याधि सात्म्यं बलं तथा । उपेक्षिते भवेत् तस्मिन्ननुबन्धो हि यक्ष्मणः । प्रागेवागमनात् तस्य तस्मात् तं त्वरया जयेत् ॥ ३९ ॥
तत्र श्लोको। क्षतक्षयसमुत्थानं सामान्यं पृथगाकृतिम् । असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिरेव च ॥
इति । ( नागवलाकल्पः । ० ) मण्डकपा इत्यादि। मण्डकपर्णी मञ्जिष्ठा दन्ती वा, तस्या अपि नागवलावत् तोलकमारभ्य प्रतिदिनं तोलकैकद्धया दुग्धेन पिवेदनन्नभुक् क्षीरमात्रवृत्तिरेव स्यात् । तथा शुण्ठीयष्टीमधुकयोः प्रत्येक कल्पो नागबलावत्। पुष्टयायुलारोग्यकरः पर इति ॥३८॥
गङ्गाधरः--यद्यदित्यादि। सन्तर्पणं शीतमविदाहि लघु हितश्च यद यदन्नपान तत् क्षतक्षीणैरुरःक्षतिभिः क्षीणश्च सेव्यमिति। यच्चोक्तमित्यादि स्पष्टम् । उपेक्षित इत्यादि। तस्मिन् क्षते क्षीणे चोपेक्षिते सति हि यस्मात् यक्ष्मणोऽनुबन्धो भवेत् तस्माद् यक्ष्मण आगमनात् पूर्व खरया तं क्षतं क्षीणश्च जयेदिति ॥३०॥
केवलं क्षीरवर्तिनाम् । उक्तं हि जतूकर्ण-नागबला समूलार्द्धकर्षवृद्धा पलमाना मासं पेया क्षीरमात्रवृत्तिरिति ॥ ३८॥
चक्रपाणिः-शोतञ्चापि स्पर्श । “वान्तिकारि" विदाहि भवति तदर्थमविदाहि इत्युक्तम् । क्षतक्षीणस्य त्वरया प्रतिकर्तव्यतामाह-उपेक्षित इत्यादि । तस्येति यक्ष्मणः ॥ ३९ ॥
३४९
For Private and Personal Use Only