________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७६०
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
एका षोड़शका धान्याद द्वे ऽजाज्यजमोदयोः । ताभ्यां दाड़िमवृताम्लं द्विद्वि : सौवर्चलात् पलम् ॥ शुण्ठाः कर्ष दधित्थरय मध्यात् पञ्च प्लानि च । तच्चूर्ण षोड़शपले शर्कराया विमिश्रयेत् ॥ षाड़वोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत् । मन्दानले शक्रुद्ध दे यदिमणामग्निवर्द्धनः ॥ ३७ ॥
षाड़वः ॥
[क्षतक्षीणचिकित्सितम्
पिवेन्नागबलामूलमर्द्धकर्ष विवर्द्धनम् । पलं क्षीरयुतं मासं नीरवृत्तिरनन्नभुक् ॥ एष प्रयोगः पुष्टप्रायुर्बलारोग्यकरः परः । मडूकपर्या कल्पोऽयं शुण्ठीमधुकयोस्तथा ॥ ३८ ॥
गङ्गाधरः - एकेत्यादि । पोड़शिका पलं धान्यात् । अजाज्यजमोदयोः द्वे द्वे षोड़शके द्वे द्वे पले, दाड़िमवृक्षाम्लं ताभ्यां षोड़शिकाभ्यां द्विद्विरिति दाड़िमत्वकच चतुःपलं, वृक्षाम्लञ्च चतुःपलं, सौवर्चलादेकं पलम्, शुष्ट्या कर्ष, दधित्थस्य मध्यस्थशस्यं पञ्चपलं, शर्करायाः षोड़शपलम् । इत्येतत् सर्व्वं विमिश्रयेत् । अयं षाड़वो नाम क्षीणे भिन्ने शकृति दीपनपाचनोऽन्नपाने पूर्व्ववत् प्रदेयः स्यादिति ॥ ३७ ॥ सैन्धवादिषाड़वः ।
गङ्गाधरः - स्त्रीप्रसङ्गक्षीणस्य योगान्तरमाह - पिबेदित्यादि । नागबला गोरक्षतण्डुला तस्या मूललक चूर्णमद्धे कर्षमारभ्य विवर्द्धनं पलं यावत् । क्षीरयुतं तदालोड़नाहंक्षीरयुतं मासं त्रिंशधिनं पिवेत् । क्षीरवृत्तिरनन्नशुक् स्यात्, अन्नं न भुञ्जीत केवलं क्षीरं पीखा वर्त्तत । प्रथमदिनमेकतोलकम् । द्वितीये द्वितोलकम् । इत्येवं प्रतिदिनमेकैकतोलकं चूर्ण वर्द्धयेद दुग्धञ्च तदालोड़नयोग्यं वर्द्धयेदिति पलं यावत् । ततो नवमादिषु पलमेव । प्रतिदिनम्
For Private and Personal Use Only
चक्रपाणि: षोडशिका पलं दाडिमवृक्षाम्लम् । द्विर्द्धिरिति पूर्वद्विपलापेक्षया द्विगुणं प्रत्येकं चतुःपलत्वं दर्शयति । पूर्ववदिति पूर्वयोगसमा मानफलतामाह । अल जतूकर्णः - पलिके धान्यकर चके । at arrest | शुष्ट्याश्च कर्षः । कपित्थदाड़िमवृक्षाग्लानां कुड़वमित्यादि ॥ ३७ ॥ चक्रपाणिः - नागबलेत्यादी अर्द्धकप्रभृति अर्द्धकपणेन वर्द्धितं पलं मासमेकं पेयम् ।