________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः
चिकित्सितस्थानम्। २७७६ गोमहिष्यश्वनागाजैः क्षीरेमींस रसैस्तथा। यथाग्नि भोजयेद् यूषैः फलाम्लघृतसंस्कृतैः ॥ ३४ ॥ दीप्तेऽनौ विधिरेष स्यान्मन्दे दीपनाचनः । यक्ष्मिणां विहितो ग्राहो भिन्ने शकृति चेष्यते ॥ ३५ ॥ पलिकं सैन्धवं शुण्ठो द्वच सौवर्चलात् पले। कुड़वांशानि वृक्षाम्लं दाडिम पत्रमञ्जकात् ॥ एकै मरिचाजाज्यो धान्यकाद् द्वे चतुर्थिके। शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् ॥ कृत्वा चणं ततो मात्रामन्नपाने प्रयोजयेत् । रोचनं दीपनं बल्यं पाार्तिश्वासकासनुत् ॥ ३६ ॥
सैन्धवादिचूर्णम् । गोमहिष्यश्वेत्यादि। क्षीणे स्त्रीप्रसङ्गात् क्षीणेऽवले गवादीनामन्यतमक्षीर• रन्यतममांसमांसरसा फलाम्लघृतसंस्कृत मुगादियूपैर्वा क्षीणरोगिणं भोजयेत् ॥ ३४॥ ___ गङ्गाधरः- दीप्तेऽनावित्यादि। दीप्तेऽनौ त्वेष जाङ्गलरसादिभिर्भोजनविधिरुक्तः स्यान्मन्देऽनौ तु दीपनपाचनो विधिः। भिन्ने शकृति यो यक्ष्मिणां ग्राही योगो विहितः स एव क्षीणरोगिणो भिन्ने शकृतीष्यते ॥३५॥
गङ्गाधरः-दीपनपाचनयोगानाह-पलिकमित्यादि। सैन्धवं पलिक, शुण्ठी च पलिका, सौवच्चलात् द्वे च पले, वृक्षाम्लं तिन्तिडीकं पक्वं दाडिमखक अज्जकात् तुलस्याः पत्रमित्येतानि प्रत्येकं कुड़वांशानि, मरिचा. जाज्योरेक पलं, धान्यकात् द्वे चतुर्थिके द्वे पले, शकराया द्वादश पलानि पदापयेत् । सर्वमिदं चूर्ण कृताऽनसाधने पाने च ततो मात्रां प्रयोजयेत् ॥३६॥
सन्धवादिचूर्णम् । शर्करादिप्रक्षेपः । वस्त्रपूतानामिति वस्त्रान्तरालपसितानाम् । मन्दे ऽग्नौ यक्ष्मिणां यो (दीपनपाचनः) विहितः, भिन्ने शकृति च यो ग्राही स विधिरिष्यत इति ज्ञेयम् ॥ ३०-३५॥
चक्रपाणिः-पलिकमिति पलमानम् ॥३६॥
For Private and Personal Use Only