________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७८
चरक-संहिता। तक्षीणचिकित्सितम्, वस्तिदेशे विकुळणे स्त्रीप्रसक्तस्य मारुते। वातघ्नान् वृहणान् वृष्यान् योगांस्तस्य प्रयोजयेत् ॥३०॥ शर्करापिप्पलीचूणः सर्पिषा मादिवेण च। संयुक्त वा शृतं क्षीरं पिबेत् कासज्वरापहम् ॥३१॥ फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् । स्त्रीषु क्षीणः पिबेद यूषं जीवनं वृहणं परम् ॥ ३२॥ सक्तूनां वस्त्रपूतानां मन्थं चौद्रघृतान्वितम् । यावन्न सात्म्यो दीप्ताग्निः चतक्षीणः पिबेन्नरः॥३३॥ जीवनीयोपसिद्धं वा जागलं घृतभर्जितम्। रसं प्रयोजयेत् क्षीणे व्यञ्जनाथं सशर्करम् ॥
गङ्गाधरः-स्त्रीप्रसक्तक्षीणस्य विशेषचिकित्सितमाह-वस्तिदश इत्यादि। स्त्रीप्रसक्तस्य मारुते वस्तिदेशे विकुर्वाणे विकृति प्राप्नुवति तस्य वातघ्नादीन योगान् प्रयोजयेत् ॥३०॥
गङ्गाधरः-तान् योगानाह-शर्करेत्यादि। शृतं केवलं दुग्धमद्धावर्तितं कृता तत्रानुरूपं पिप्पलीचर्ण शर्कराश्च संयोज्य पिबेत्। सर्पिषा संयुक्तं वा तत् क्षीरं, माक्षिकेण संयुक्तं वा पिबेत् ॥ ३१ ॥
गङ्गाधरः-फलाम्लमित्यादि। शुष्कबदरामलकायलफलम्। विदारीरसेक्षुरसयोः समानांशयोः शृतं पक्वं मुद्गादियषं शुष्कबदरादीनां फलाम्लं कृखा तघृते सम्भृष्टं स्त्रीषु क्षीणः पिवेत् ॥ ३२ ॥
गङ्गाधरः-सक्तनामित्यादि। वस्त्रपूतानां यवसक्तूनां जलनालोड़ितो मन्थः, तं क्षौद्रघृतान्वितं यावत् क्षतक्षीणः न सात्म्यः स्यान च दीप्ताग्निः स्यात् तावत् पिवेत्। सात्म्ये दीप्ते चानौ त्यजेत् ॥ ३३॥ ___ गङ्गाधरः-जीवनीयेत्यादि। जीवनीयदशककाथे जाङ्गलमांसं पक्त्वा सिद्धं रसं घृते भर्जितं सम्भृष्टं सशर्करं क्षीणेऽन्वक तान् व्यञ्जनार्थ प्रयोजयेत् ।
चक्रपाणि:-विकुर्वाण इति शूलादिविकारं कु.वाणे। शर्करेत्यादौ प्रक्षेपन्यायेन धीरे
For Private and Personal Use Only