________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ! चिकित्सितस्थानम् ।
२७७७ कुड़वाद्धं तुगानी•ः खजराणाञ्च विंशतिम्।. पृथग विभीतकानाञ्च पिप्पल्याश्च चतुर्थिकाम् ॥ त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च। । तथा पलिकान्यत्र जीवनीयानि दापयेत् ॥ सिद्धेऽस्मिन् कुड़वं क्षौद्राच्छीते दत्त्वा च मोदकान् । कारयेन्मरिचाजाजी -पलचूर्णावचूर्णितान् ॥ वातासृपित्तरोगेषु क्षतकासे क्षयेषु च। शुष्यतां क्षीणशुक्राणां रक्त चोरसि संस्थिते ॥ कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम् । योनिदोषकृतस्राव-हतानाश्चापि योषिताम् ॥ ... गर्भार्थिनीनां गर्भश्च स्रवेद यासां म्रियेत वा। धन्या बल्या हितास्तासां शुक्रशोणितवर्द्धनाः ॥ २६ ॥
सर्पिोदकः ॥
इकुरसेन पिष्ट्वा पुनरिमान् मधूकपुष्पादीन् दद्यात्। तथा जीवनीयानि दश प्रत्येकम् अद्धपलिकानि चर्णयिखा दापयेत् । सिद्ध पाकेऽवतार्य शीते सति क्षौद्रात् कुड़वं दत्त्वा मोदकान् अक्षमितान् कारयेत्। कृला तान् मोदकान् मरिचचूर्णजीरकचूर्णयोः पलेनावचूर्णितान् वहिम्र क्षितान् कारयेदिति। तेषामेकैकं जग्ध्वा पयोऽनुपिवेत् । मधूकपुष्पचूर्ण कुड़वं चतुःपलम्। तथा पियालफलचण कुड़वं चतुःपलम् । तुगाक्षी- द्वे पले । खजूराणां गुहकान् विंशतिम्। विभीतकानां गुड़कांश्च विंशतिम्। पिप्पलीचूर्णस्य चतुर्थिकां पलमेकम् । खण्डात् त्रिंशत्पलानि। यष्टीमधुकचर्णात् कर्षमेकं दद्यादिति पूर्वेणान्वयः। वातासृगित्याद्याशीः ॥२९॥ सर्पिमोदकः।।
चक्रपाणिः-गोक्षीरादित्यादौ गोक्षीरमानं कारणतयोच्यते न घृतपाकः । तथाहि सति प्रक्ष्येप्यचूर्णेम मोदका न भवेयुः। चतुर्थिका पलम् ॥ २१ ॥
For Private and Personal Use Only