________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७६
चरक-संहिता। क्षितक्षीणचिकित्सितम पृथग् दशपलान् भागान् पलान्यष्टौ च नागरात्। यष्टाहसौवर्चलयोपिलं मरिचस्य च ॥ क्षीरतैलघृतानाच आढ़के शर्कराशते। कथिते तानि चूर्णानि दत्त्वा विल्वसमान् गुड़ान् ॥ कुर्यात् तान् भक्षयेत् क्षीणः क्षतशुष्कश्च मानवः । तेन सद्यो रसादीनां वृद्धया पुष्टिं स बिन्दति ॥२८॥ गोक्षीराद् द्ववादकं सर्पिः-प्रस्थमिक्षुरसादकम् । विदारीखरसात् प्रस्थं रसात् प्रस्थञ्च तत्तिरात् ॥ दद्यात् सिध्यति तस्मिंश्च पिष्टानिक्षुरसरिमान् ।
मधूकपुष्पकुड़वं पियालकुड़वं तथा ॥ नवामलकादानां सप्तानां प्रत्येकं चण समांशं मिलिखा दशपलं नागरचर्णादष्टपलं यष्टीमधुचणस्य द्विपलं सौवर्चललवणस्य च द्विपलं मरिचचणस्य च द्विपलम्। एतानि चर्णानि कृखा स्थापयेत् । गव्यक्षीरस्यादकं षोड़शशरावं तिलतैलस्य षोडशशरावं गव्यपुराणघृतस्य षोड़शशरावं शर्करापलशतञ्चैकत्र पचेत् । तस्मिन् क्षीरक्षये तन्तुलीभूते कथिते निष्पन्नपाके सति तानि नवामलकादिचर्णानि दत्त्वालोड्यावतारयेत् । शीते मधु च तेलघृतयोः पादिकमष्टशरावं दत्त्वा विल्बमात्रान् पलिकान् गुड़कान् कुर्यात् । सर्पिगुडान् समध्वंशान् जग्ध्वा चानु पयः पिबेदित्युक्तेः। तांश्च भक्षयेदनु च पयः पिबेत् ॥ २८॥ अपरसपिगुड़: (३)
गङ्गाधरः-गोक्षीरादित्यादि। गोक्षीरात् दाढकं द्वात्रिंशच्छरावम् । इक्षुरसादाढकं षोड़शशरावम् । विदारीस्वरसात् प्रस्थं चतुःशरावम् । तत्तिरमांसरसात् प्ररथं चतुःशरावम् । पुराणगव्यसपिः प्रस्थमेकत्र पचेत् । सिध्यति पाकेन क्षीरादिद्रवक्षये वक्ष्यमाणचर्ण मिश्राई किञ्चिद्वसहितघृतावशेषे तस्मिन्
चक्रपाणिः-द्राक्षामित्यादौ यष्ट्याहसौवर्चलयोमिलित्वा द्विपलम्। मरिचस्य पलमिति शेषः। उक्तं हि जतूकर्णे-घृततैलपयस्त्रयाढके सितातुलाञ्च प्रपच्य द्राक्षाविदारीवृश्वीरशतावरीकृष्णाशुण्ठीबलाधालीश्च दशपलिकाः प्रपचेत् । यष्ट्याहारुचकञ्च पलिकमित्यादि। कथित इति भाषया क्षीणे एव क्षीरे चूर्णप्रक्षेपं दर्शयति ॥२०॥
For Private and Personal Use Only