________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११श अध्यायः ]
चिकित्सितस्थानम् ।
त्वक्क्षीरीश्रावणीद्राचा-मूर्षभकजीवकैः । वीरर्द्धिक्षीरकाकोली- वृहतीकपिकच्छुभिः ॥ खर्ज र फलमेदाभिः चीरपिष्टैः पलोन्मितः । धात्रीविदारीचुरस - प्रस्थैः प्रस्थं घृतात् पचेत् ॥ शर्करार्द्धतुलां शीतै चौद्रार्द्धप्रस्थमेव च । दवा सर्पिर्गुड़ान् कृत्वा कास हिक्काज्वरापहान् ॥ यमाणं तमकश्वासं रक्तपित्तं हलीमकम् । शुक्रनिद्राक्षयं कार्यं हन्युस्तृष्णां सकामलाम् ॥ २७ ॥
( ३ ) सर्पिर्गुड़ः ।
Acharya Shri Kailassagarsuri Gyanmandir
नवमामलकं द्राचा--मात्मगुप्तां शतावरीम् । पुनर्नवां विदारीञ्च समांशां पिप्पलीमपि ॥
२७७५
गङ्गाधरः- वक्क्षीरीत्यादि । खकक्षीरी वंशलोचना, श्रावणी मुण्डेरी, मूर्व्वामूलं वीरा पृश्निपर्णी, कपिकच्छुर्वानरीवीजम्, खज्जरफलं, मेदा महामेदा च । बहुवचनं मानतो बहुत्वात् । एतैत्रयोदशभिः प्रत्येकं पलोन्मितैस्त्रयोदशपलेंः क्षीरेण श्लक्ष्णपिष्टः कल्कैर्धात्रीरसमस्थेन विदारीरसमस्थेन इक्षुरसप्रस्थेन घृतात् प्रस्थं पचेत् यथा निःशेषद्रवं न स्यात्, सद्रवे लेहवद्भावे शकरातुलार्द्ध दत्त्वावतारयेत् । शीते क्षौद्रार्द्धप्रस्थं पोड़शपलं दत्त्वालोड्य मिश्रयित्वा गुड़काः काः । भक्षितास्ते यक्ष्मादिकं हन्युः ॥ २७ ॥ अपरसपिगुडः (२)
गङ्गाधरः -- नवमित्यादि । नवमशुष्क मामलकफलम् आत्मगुप्तायाः फलम् ।
For Private and Personal Use Only
उक्तं हि जतूकर्णे - वृश्वीरं पञ्चमूलं बलां विदारीं वटादिशुङ्गांश्च । निष्काथ्य द्विक्षीरे छागविदावीरसे च समे । जीवन: पक्त्वा घृतादकमित्यादि । अव हि वाथ्यद्रव्यमानम् अनियतमिति विशेषः । काथस्तु स्नेहसम एव । खजो मन्थानदण्डः पञ्चाङ्गुलो वा दृष्टः । भूर्जपतवेष्टनञ्च शक्तयुत्कर्षणार्थम् ॥ २६ ॥
चक्रपाणिः - त्वक्क्षीरीत्यादौ श्रावणी तुण्डिकेरी च विदारीकन्दः ॥ २७ ॥
● नवमामलकं द्राक्षाम् इत्यत्र द्राक्षां नवामामलकीम् इति चक्रसम्मतः पाठः ।