________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
છાછર
चरक-संहिता। क्षतक्षीणनितिरिकतई मधूकाष्टपलं द्राक्षा-प्रस्थक्वाथे पचेद घृतम् । पिप्पल्यष्टपले कल्के प्रस्थं सिद्ध च शीतले ॥ पृथगष्टपलं क्षौद्र-शर्कराभ्यां विमिश्रयेत् । समसक्तु क्षतक्षीण-रक्तगुल्मे च तद्धितम् ॥ २३ ॥
सक्तुप्रयोगः। धात्रीफलविदारीक्षु-जीवनीयरसैघृतम्। अजागोपयसोश्चैव सप्त प्रस्थान् पच्द भिषक् ॥ सिद्धशीते सिताक्षौद्र द्विप्रस्थं विनयेच्च तत् । यक्ष्मापस्मारपित्तास्मृक्-कासमेहक्षयापहम् ॥ वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम् ।
घृतन्तु पित्तेऽभ्यधिके लिह्याद वातेऽधिक पिबेत् ॥ गङ्गाधरः-मधूकेत्यादि। मधूकपुष्पस्याष्टपलं द्राक्षायाः प्रस्थः षोडशपलं जलेऽष्टगुणे चतुर्विशतिशरावे पक्त्वा चतुर्थभागे षट्शरावेऽवशिष्ट काथे घृतं प्रस्थं पिप्पल्यष्टपले कल्के पचेत्। सिद्धे वस्त्रपूते शीते भूते क्षौद्रमष्टपलं शर्करायाथाष्टपलं तत्र प्रक्षिप्य समश्च घृतस्य तुल्यं चतुःशरावं यवसक्तुं मिश्रयेत् । सक्तुप्रयोगः ॥२३॥ . गङ्गाधरः-धात्रीफलेत्यादि। धात्रीफलरस एकप्रस्थः विदारीरस एकमस्थः इक्षुरस एकप्रस्थः जीवनीयदशकस्य काथ एकप्रस्थः घृतमेकं प्रस्थम् भजापय एकमस्थं गोपय एक प्रस्थम् । इति सप्त प्रस्थान पचेत अकल्कमिदं घृतं पक सिद्धं शीतं यदा भवति तदा सिताया एकं प्रस्थं षोड़शपलं क्षौद्रमेकमस्थं चतुःशरावं तत्र प्रक्षिप्य विनयेत् । धात्रीघृतम्। दोषभेदे प्रोक्तघृतप्रयोगं निय. मयति-घृतन्वित्यादि । उरःक्षते क्षीणे चाभ्यधिके पित्ते निरुक्तं घृतन्तु लिह्यात् ।
चक्रपाणिः-मधूके यादावपि क्वाथ्यमानानुसारेण क्वाथस्य सार्द्धप्रस्थो भवति । समशक्तु इति समशक्तु घृतम् ॥ २३ ॥
चक्रपाणिः-घृतन्त्वित्यादिनेह योग्यानि पामानि शर्करादियोगाद् घृताधु तानि, तानि पित्ते लेह्यतया कर्तव्यानि। यानि सु शर्करादिरहितत्वेन पानयोग्यानि तानि वाते कर्तव्यानीति एर्शयति। किंवा स्त्यानावस्थायोगीनि उपयोगाल्लेद्यतया पित्ते प्रयोक्तम्यामि तान्येव ।
For Private and Personal Use Only