________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः चिकित्सितस्थानम् ।
२७७१ अमृतप्राशमित्येतन्नराणाममृतं घृतम् । सुधामृतरसप्रख्यं क्षीरमांसरसाशिनः॥ नष्टशुक्रवतक्षीण-दुर्बलव्याधिपीड़ितान् । स्त्रीप्रसक्तांस्तथावर्ण-स्वरहोनांश्च वृहयेत् ॥ कासहिक्काचरश्वास-दाहतृष्णास्रपित्तनुत् ।। पुत्रदं छर्दिमूर्छाहृद-योनिमूत्रामयापहम् ॥ २१ ॥
___अमृतप्राशं घृतम् । श्वदंष्ट्रोशीरमञ्जिष्ठा-बलाकाश्मर्यकत्तृणम् । दर्भमूलं पृथकपर्णी पलाशर्षभको स्थिरा ॥ पलिकान् साधयेत् तेषां रसे क्षीरचतुर्गणे। कल्कः स्वगुप्ताजीवन्ती-मेदर्षभकजीवकैः ॥ शतवीर्याद्विमृद्वीका-शर्कराश्रावणीविसः। प्रस्थः सिद्धो घृताद वात-पित्तहृद्भवशूलनुत् ॥ मूत्रकृच्छ्रप्रमेहार्शः-कासशोषक्षयापहः । धनुःस्त्रोमद्यभाराव-खिन्नानां बलमांसदः ॥ २२॥
श्वदंष्ट्राद्य घृतम्। स्मादौषधान्मात्रामन्याद्यपेक्षया नरः सदा लिह्यात्। क्षीरमांसरसाभ्या. मेवान्नमश्नीयादिति। शेषं सर्वमाशीः। अमृतमाशघृतम् ॥२१॥
गङ्गाधरः-श्वदंष्ट्रत्यादि। कामयं गाम्भारीफलं दर्भस्य उल्लाकस्य मूलम् । श्वदंष्ट्रादीनां स्थिरात्तानामेकादशानां प्रत्येकं पलिकान् एकादश द्रव्याण्यष्टगुणे जले साधयेत् तेषां चतुर्भागावशेषे रसे पादोनशरावत्रये चतुगु णे क्षीरे स्वगुप्तादिविसान्तैरेकादशभिः कल्कैघृतात् पादिकं तपस्थः सिद्धः पकः । श्वदंष्ट्रादिघृतम् ।। २२ ॥ ज्ञेयम् । पलार्द्धकत्वमिह मरिचादीनां मिलितानां समाहारप्रधानत्वान्निर्देशस्य । वृद्धाबलधतीन्यायात् तु प्रत्येकमेव पलार्द्धकत्वं भवति । सुधा भोगिभोज्या। अमृतन्तु देवभोज्यम् ॥ २१॥ .. - चक्रपाणिः -- श्वदंष्ट्र स्यादौ क्वाथ्यद्व्यपरिमाणानुसारेण पादोनप्रस्थत्रयं जलं दत्त्वा चतुर्भागावशेषेण द्वाविंशकाथपलानि भवन्ति । क्षीरश्चात्र चतुर्गुणं शृतात किंधा काथचतुर्गुणं क्षोरम् ॥२२॥ .
For Private and Personal Use Only