________________
Shri Mahavir Jain Aradhana Kendra
२७७०
५
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ क्षतक्षीणचिकि सितम्
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटोम् । चतस्रः पर्णिनीभेदे काकोल्यौ द्वे निदिग्धिके ॥ पुनर्नवे मधुकमात्मगुप्तां शतावरीम् । ऋद्धिं परूषकं भार्गी मृद्वीकां वृहतों तथा ॥ शृङ्गाटकं तामलकीं पयस्यां पिप्पलों बलाम् । बदराचोड़खर्जूर- वातामाभिषुकाण्यपि ॥ फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान् । धात्री र सविदारी- च्छागमांसरसं पयः ॥ दत्त्वा प्रस्थोन्मितान् भागान् घृतप्रस्थं विपाचयेत् । प्रस्थाद्ध मधुनः शीते शर्करार्द्ध तुलां तथा ॥ पलार्द्धकञ्च मरिच त्वगेलापत्र केशरात् । विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः ॥
गङ्गाधरः - जीवकेत्यादि । वीरां पृश्निपर्णी, चतस्रः पर्णिनोरित्यत्रापि पर्णी तेन भागद्वयमिति । द्वे मेढे, द्वे काकोल्यो, द्वे निदिग्धिके वृहती'कण्टका", द्वे पुनर्नवे श्वेतरक्ते, तामलकीमिति भूम्यामलकीं, पयस्यामिह क्षीरविदारों, आक्षोड़ इति आखरोट इति लोके । वाताम इति लोके 'वादाम इति ख्यातः । अभिषुकं फलविशेषः प्रसिद्धः । एवमादीनि वातपित्तहराणि फलानि यथालाभं कार्षिकान् कल्कान् कुर्य्यात् । धात्रीरसविदारी रसेक्षुरसच्छागमांसरसान् पयो गव्यं प्रत्येकं प्रस्थोन्मितान् भागान् दत्त्वा घृतप्रस्थं विपाचयेत्। वस्त्रपूतं कृखा तत्र घृते शर्कराया अर्द्धतुलां, मरिचादीनां पञ्चानां प्रत्येकं पलार्द्धकञ्च चूर्णितं विनीय प्रक्षिप्य मथिला स्थापयेत् ; शीते भूते मधुनः प्रस्थार्द्ध द्वैगुण्यात् शरावद्वयं दत्त्वा मिश्रयित्वा
For Private and Personal Use Only
चक्रपाणिः- निदिग्धिके इति वचनेन वृहतीलता वृहतिका ग्राह्या । पयस्या विदारिगन्धा । अक्षोवातामाभिषुकाणि तु औत्तराधिकानि फलानि । एवमादीनि इति एवम्प्रकाराण्यन्यानि वातपित्तहराणि । धानीरसानाञ्च यद्यपि "पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ । त स्नेहसमान्याहुः" इति वचनेन प्रस्थमानत्वं सिद्धम्, तथापि एतत्परिभाषार्थदार्यार्थमेवैर मानकथनं