SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः] चिकित्सितस्थानम्। २७६६ न्यग्रोधोडुम्बराश्वत्थ-ननशालप्रियङ्गुभिः । तालमस्तकजम्बूत्वक्-पियालैश्च सपद्मकैः ॥ साश्वकर्णैः शृतात् क्षीरादद्याजातेन सर्पिषा। " शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः ॥ १८॥ यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम् । पयस्यापिप्पलीवांशी-कल्कसिद्धं क्षते हितम् ।। १६ ॥ कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम् । कल्कः कटुङ्गदा/त्वग्-वत्सकत्वक्फलैधुतम् ॥ २०॥ गङ्गाधरः-न्यग्रोधेत्यादि। अश्वकर्णोऽपि शालभेदः पीतशालः असन इति लोके। न्यग्रोधादीनां समांशानां कल्कः क्षीरादष्टमांशश्चतुर्गुणजले शृतान्मथिताज्जातेन उत्थितेन सर्पिषा शाल्योदनमद्यात्। क्षतोरस्कः क्षीणशुक्रश्च मानव इति ॥१८॥ गङ्गाधरः-यष्ट्याहत्यादि। यष्ट्या नागबला गोरक्षतण्डुला तयोः काथे त्रिगुणे क्षीरसमं पुराणं घृतम् । पयस्या क्षीरकाकोली, वांशी वंशलोचना। पयस्या-पिप्पली-वंशलोचना-कल्कैः पादिकैः सिद्धं घृतं क्षते हितं प्रकरणात् श्रीणे च ॥१९॥ गङ्गाधरः-कोलेत्यादि। कोलं शुष्कबदरफलं लाक्षा च, तयोः रसे काथे क्षीरसमं घृतं पयस्यादिकल्कसिद्धं तद्वत् क्षते हितम् । क्षीराष्टगुणसाधितं कटङ्गादिभिः कल्कैः पादिकैः शृतं घृतं तद्वत् क्षते हितमिति । कटङ्गः श्योनाकः। दार्जीवक् च वत्सकलक् च वत्सकफलञ्चेति चतुर्भिः कल्कैरिति ॥२०॥ पकपाणि:-क्षीराजातेनेति क्षीरावस्थायामेव गृहीतेन ॥ १८॥ चक्रपाणिः-यष्ठ्याहृत्यादौ काथक्षीराभ्यां घृतात् चातुर्गुण्यम्। वांशी वंशलोचना ॥१९॥ चक्रपाणिः-कोलेत्यादौ तद्वदिति क्षते हितम् । अत्र कोलरसस्य लाक्षारसस्य च चातुर्गुग्यम् क्षीरश्चाष्टगुणं ददति। किंवा कोललाभारसयोः समत्वमेव क्षीरेण । अवन न्यायोऽपरमाराध्याये निर्दिष्टः ॥२०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy