________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [क्षतक्षीणचिकित्सितम् मधूकमधुकक्षीर-सिद्ध वा तण्डुलीयकम् । मूढ़वातरत्वजामेदः सुराभृष्टं ससैन्धवम् ॥ १४॥ क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रस्त्वबलेऽनिले छ । शृतक्षीररसेनाद्यात् सघृतक्षौद्रशर्करम् ॥ १५ ॥ शर्करा यवगोधूमौ जोवकर्षभको मधु। शृतदीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः॥ १६ । क्रव्यादमांसनिर्यहं घृतभृष्टं पिबेच्च सः। पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्द्धनम् ॥ १७॥
गङ्गाधरः-मधूकेत्यादि। मधूकपुष्पं याटमधुकं काथयिता तत्काथसम क्षीरमेकीकृत्य तत्र तण्डुलीयकं पक्त्वा पिबेत्। मूढवातः अनिःसारिवायुः क्षतः क्षीणश्च अजाया मेदः ससैन्धवं सुरायां भृष्टं तप्तसुरायां प्रक्षिप्य पक्त्वा पिबेत् ॥१४॥
गङ्गाधरः-क्षाम इत्यादि। क्षीणः शुक्रोजसोः क्षययुक्तः क्षतोरस्कश्च यदि क्षामः क्षीणोऽनिद्रश्च स्यादनिले खबले सति शृतेन क्षीरेण मांसरसेन सघृतक्षौद्रशर्करमन्नमद्यात् ॥१५॥
गङ्गाधरः-शर्करेत्यादि। यवगोधूमौ जीवकर्षभको चूर्णीकृत्य शर्कराश्च समांशं नीला मधुना लिहेत् । ततोऽनु पक्वं दुग्धं पिबेत् ॥१६॥
गङ्गाधरः-क्रव्यादत्यादि। क्रव्यादानां मांसादानां मृगपक्षिणां मांस. निय्यूह मांसकाथं घृते भृष्टं शीतीकृत्य तत्र पिप्पलीचर्ण मधु च प्रक्षिप्य स क्षतः क्षीणश्च कृशः पुरुषो मांसशोणितवर्द्धनं पिबेत् ॥१७॥
चक्रपाणिः-मधूकेत्यादौ मधूकमधुकल्केन क्षीरेण समं साधितं तण्डलीयकशाकम् ॥ १४ ॥ चक्रपाणिः-सबल इत्यादौ बलवत्यनले ॥ १५॥ १६ ॥ चक्रपाणि:-क्रव्यादाः मांसभुजो मृगपक्षिणः ॥ १७ ॥
• अबलेऽनिले इत्यत्र सबलेऽनले इति चक्रः।
For Private and Personal Use Only