________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्यायः] चिकित्सितस्थानम्। २७७३
लीढ़ निर्वापयेत् पित्तमल्यत्वाद्धन्ति नानलम्। . आक्रामत्यनिलं पीतमुष्माणं निरुणद्धि च ॥ क्षामक्षीणकुशाङ्गानामेतान्येव घृतानि तु। त्वपक्षीरीपिप्पलीलाज-चूर्णैः स्त्यानानि योजयेत् ॥ २४ ॥ सर्पिगुडान् समध्वंशान् जग्ध्वा चानु पयः पिबेत् । रेतो वीयं बलं पुष्टिं तैराशुतरमाप्नुयात् ॥ २५ ॥
(१) सर्पिगुड़ः बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्टाशिका अपि ॥ वातऽधिके पिवेत्। कस्मात् ? लीढं घृतमल्पखात् पित्तं निपियेदनलश्च न हन्ति। पीतं पुनरनिलमाक्रामति उष्माणश्च निरुणद्धि। तस्मात् पित्तेऽधिके लिह्याद्वातेऽधिके पिबेत्। कथ द्रवं घृतं लिहेदित्यत आह–क्षामेत्यादि। क्षामादीनां पित्ते घृतान्येतानि लेहार्थ बक्षीरीपिप्पलीचूर्णलाजचणैर्यथाई स्त्यानानि कृत्वा योजयेत् ॥२४॥ - गङ्गाधरः-अथ वक्ष्यमाणसर्पिगु कानां भक्षणविधिमाह । समध्वंशान् यत्र सर्पिणु हे मधु नोक्तं तत्र चतुर्थांशं मधु दत्त्वा सपिगुडकान् जग्ध्वा पयोऽनुपिबेत् । तथाभक्षणे रेतोवीर्याद्याशीः। उक्तसक्तप्रयोगमनेन प्रकारेण योजयेद् भक्ष्यखात् ॥२५॥ __गङ्गाधरः-सर्पिगंडानाह–बलेत्यादि। ह्रस्वा पञ्चमूली शालपादिपञ्चमूली, क्षीरिणो वृक्षाः पञ्च वटोडुम्बराश्वत्थप्लक्षकपीतनास्तेषामग्रे स्थिताः शुङ्गाः विलीनावस्थामापनानि तानि वायोः कर्त्तव्यानि। घृतलेहस्य घृतपानस्य च पृथक् फलमाहनिळपयेदित्यादि। अल्पत्वादिति लेहत्वेनैवालगत्वात्, लेहस्य कर्षमानत्वेनोक्तत्वात् । आक्रामतीति जयति। निरुणीति न प्रतिहन्ति । न रुणद्धीति केचित् पठन्ति। क्षामत्यादौ क्षामः क्लान्तदेहः, क्षीणो दुर्बलः, कृशो हीनमांसः। तक्षीर्यादीनां तावन्मानं ज्ञेयं यावता घृतस्य स्त्यानत्वम् ॥ २४ ॥
चक्रपाणिः-समध्वंशानित्यनेन मधुनः त्वक्षी-दिसमानतामाह ॥ २५॥
चक्रपाणि:-बलामित्यादि । क्षीरिवृक्षा वटोदुम्बराश्वत्थप्लक्षकपीतनाः । उक्तं शालाक्ये "उदुम्बरो वटोऽश्वत्थो मधुका पक्ष एव च। पञ्चैते क्षीरिणो वृक्षा अस्मिन् तन्त्रे प्रकीर्तिताः" इत्युक्तम्।
३४८
For Private and Personal Use Only