________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श अध्यायः] चिकित्सितस्थानम् । उरोरुक शोणितच्छर्दिः कासो वैशेषिकः क्षते। क्षोणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ॥ ५ ॥ अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः । परिसंवत्सरो याप्यः सर्वलिङ्ग विवर्जयेत् ॥६॥ उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम् । सद्य एव पिबेज्जीणे पयसाद्यात् सशर्करम् ॥ गङ्गाधरः-क्षतस्य क्षीणस्य च विशेषलक्षणमाह--उरोरुगित्यादि। क्षते धनुषायस्यत इत्यादिभिरुरसि क्षते उरोरुक च शोणितच्छद्दिश्च स्यात् । शुक्रोजसोः क्षयात क्षोणे कासमानस्य यथा कासशब्दः स्यात ततः शब्दाद विशिष्टशब्दवान् कासस्तत्रोरक्षते भवति, तथा तस्य क्षीणस्य यथोरो विरुज्यते ततो वैशेषिकी उरोरुक क्षते, तथा क्षीणस्य कासमानस्य यथा सास्त्रः कफः प्रवर्तते ततो वैशेषिकी शोणितच्छर्दिः क्षते भवतीति भेदः । इत्युरक्षितस्य विशेषलक्षणम् । अथ क्षीणस्य लक्षणमाह-क्षीणे इत्यादि। स्त्रीष्वतिप्रसक्तस्य रुक्षाल्पप्रमिताशिनो जनस्य शुक्रौजसोः क्षयात् क्षीणे सति सरक्तसूत्रत्वं पार्थादिग्रहश्चेत्यधिकं भवतीति ॥५॥
गङ्गाधरः-अनयोः साध्यासाध्यलक्षणमाह-अल्पेत्यादि। अल्पलिङ्गस्य क्षतस्य क्षीणस्य च दीप्ताग्नेबलवतो जनस्य नवो नूतनो य उरक्षतरोगा क्षीणरोगश्च स साध्यः। परिसंवत्सरः परिगतसंवत्सरः। सर्वलिङ्ग विवज्जयेदिति । इत्युरक्षितक्षीणरोगनिदानम् ॥६॥
गाधरः-अनयोश्चिकित्सितमाह-उरो मत्वेत्यादि। यदा उरसः क्षतं भवतीति विज्ञायते, तदा लाक्षां चर्गीकृत्य मधुसंयुतां पयसा पिवेत् ।
चक्रपाणिः-उरोरुगित्यादिग्रन्थस्तु प्रायेण विकृतिः। कासो वशेषिक इति विशिष्टः, सच विशेषो दुष्टः श्याव इत्यादिना प्रोक्तो ज्ञेयः। किंवा वैशेषिकोऽधिको ज्ञयः । क्षीण इति शुक्रौलसी भोणे। अन्ये तु उरोरुगित्यादिनावस्थाद्वयं तस्य लक्षणद्वयमेतद्वर्णयन्ति। चिकित्साप्रवृत्त्यर्थ साध्यादिविभागमाह-अल्पेति। परिसंवत्सरो वर्षातीतः ॥५॥६॥ चक्रपाणिः-ज्ञातरोगविशेषेण कर्त्तव्यां चिकित्सामाह-उरो मत्वेत्यादि। उरसः सथः
३४७
For Private and Personal Use Only