________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. चरक-संहिता। [क्षतक्षीणचिकित्सितम् क्रमाद वोय्य बलं वर्णो रुचिरग्निश्च हीयते। ज्वरो व्यथा मनोदैन्यं विड़ भेदोऽग्निवधस्तथा * ॥ दुष्टः श्यावः सुदुर्गन्धिः पीतो विग्रथितो बहुः । कासमानस्य चाभीक्ष्णं कफः सास्त्रः प्रवर्त्तते ॥ स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रोजसोः क्षयात् ।
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ॥ ४॥ विभज्यते द्विधा जायत इव । ततः पार्श्वे प्रपीड्यते। अङ्गं शुष्यति प्रवेपते च । क्रमाद्वीयं शक्ति_यते। बलं सामर्थ्यम् । एवम्भूतस्य कासमानस्य चाभीक्ष्णं दुष्ट इत्येवमादिः सास्त्रः कफः प्रवर्तते। ईदृशः सन् स क्षतः पुरुषोऽत्यर्थ क्षीयते । तथा स्त्रीष्वतिप्रसक्तो रुक्षाल्पप्रमिताशी चेदृशः स शुक्रोजसोः क्षयादत्यर्थ क्षीयत इति । उरःक्षते प्रमिताशनात् क्षीणस्य स्त्रीष्वतिप्रसङ्ग्रेन शुक्रक्षयक्षीणस्थ सामान्य लक्षणमिदम्। ' - अनयोः पूर्वरूपमाह-अव्यक्तमित्यादि। उरो विरुज्यत इत्यादुक्तं यल्लक्षणं तद यदा तस्याव्यक्तमीपद्रपं भवति तदव्यक्तमुरोविरुजनादिकं पूर्वरूपमिति स्मृतमिति। एतेन सर्वेषामेव व्याधीनामव्यक्तलक्षणमपि पूर्वरूपमुच्यते। तत् तु दोषविशेषकृतखात् केचिदाहुविशिष्टपूर्वरूपं व्याधेरिति, तच्च न, प्रागुत्पत्तिलक्षणमेवेति न पृथग लक्षणमुक्तम्, जाधमाने व्याधौ भवतीति कथं पूर्वरूपं स्यादिति तज्जायमानव्याधे रूपमेव म पूज्वरूपं भविष्यव्याधिबोधकखाभावात्। तस्मादत्रायमथः-उर-क्षतक्षीणयोः पूच्चरूपं नास्त्यतिरिक्तं रूपात्। यदेव हि उरो विरुज्यत इत्यादिकं लक्षणं जायमानस्य जातस्य च तत्तदेव लक्षणं प्रागुत्पत्तेरव्यक्तं यजायते तत्मागुत्पत्तिलक्षणं तस्य पूर्वरूपं न खपरं पूच्चे लक्षणमस्ति, व्याधे। स्वभावादिति ॥४॥ . चक्रपाणिः–क्षतक्षयलक्षणमाह उर इत्यादिना। भिद्यत इति विदीर्यते। अग्निवधादित्यताग्निवधं विना व्याधिमहिना विड्भेदो भवतीति दर्शयति । अन्ये तु विडमेदोइग्निवधस्तथेति पठन्ति। दुष्टो व्यापन्नः । क्षीषत इति धातुक्षयवान् भवति, न केवलं क्षतादेव भीयते किन्तु अतिस्त्रीसेवादिना कृताच्छुक्रोजःक्षयादपि क्षीयते इतरधातुक्षयवान् भवति । पूर्वरूपमाह-अव्यक्तमित्यल्पत्वेन, यथोक्तलक्षणतया सम्पूर्णम् ॥ ४ ॥
* विडभेदोऽग्निवधादपि इति चक्रेण पठ्यते ।
For Private and Personal Use Only