________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः
चिकित्सितस्थानम्। २७६३ अधीयानस्य वात्युच्चैदरं वा व्रजतो द्रुतम् । महानदीर्वा तरतो हयैर्वा सह धावतः॥ सहसोत्पततोऽत्यर्थं तूर्णञ्चापि प्रनृत्यतः। तथान्यैः कर्मभिः क्रूरै शमभ्याहतस्य वा ॥ विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते। स्त्रीषु चाति प्रसक्तस्य रुक्षाल्पमिताशिनः ॥३॥ उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विभज्यते।
प्रपीड्य ते ततः पार्वे शुष्यत्यङ्ग प्रवेपते ॥ शिला मल्लशिला, अश्मा तदन्यशिला। काष्ठं मल्लादिषु काष्ठमुद्गरादि गुरुतरम् । निर्घातो गुरु प्रहरणं गदादिः। तान् क्षिपतस्तैश्च परान् निघ्नतः। अत्युच्चैः अधीयानस्य सामवेदगानादिकं कुर्चतः। द्रुतं दूरं व्रजतः। महानदीर्बाहुभ्यां सन्तरतः। सहसा उत्पततो लम्फं कुर्चतः । तूर्णमाशु हठात् प्रनृत्यतः । तथान्यमल्लयुद्धादौ करैः कर्मभिर्ध शमभ्याहतस्य सर्चत आहतस्य वक्षसि विक्षते विशेषेण क्षते सति बलवान् व्याधिः समुदीय्यते। स्त्रीष्वतिप्रसक्तस्य रुक्षाल्पमिताशिनश्च बलवान् व्याधिः समुदीर्यते। इति द्विधा क्षतक्षीणम् ॥३॥
गङ्गाधरः-कीदृशो व्याधिरित्यत आह-उरो विरुज्यते। क्षते धनुषायस्यत इत्यादिभिर्हेतुभिरुरसि क्षते तथा स्त्रीपतिप्रसक्तस्य रुक्षाल्पाद्याशिनश्च क्षीणत्वे उरो वक्षो विरुज्यते भगवद्वेदना वक्षसि भवति । भिद्यते विदीयंत इव । मिगृह्णत इति वारयतः, निर्घातोऽस्त्रविशेषः किंगा निर्वातः शिलादीनां प्रेरणविशेषोऽति. बलसम्पादितः। अभ्याहतस्य परैरभिहतस्य। व्याधिरिति वक्ष्यमाणलक्षणः क्षतक्षयाख्यो व्याधिः। अन्ये तु व्याधिशब्देन वातमेवाहुः, दोषा अपि व्याधिशब्दं लभन्ते इति वचनात् । न चास्मिन् राजयक्ष्मरूपता शङ्कनीया, यतः उरःक्षतस्त्रिदोषजन्य एव भिन्नसंप्राप्तिश्च अयथाबलमारम्भैजन्तोहरसि विक्षते वायुः प्रकुपितो दोषावुदीर्योभौ विधावतीत्यादिनोक्ता, लक्षणानि भिन्नान्येव उरो विरुज्यते इत्यादिना वक्ष्यमाणलक्षणेभ्य उक्तानि । अत एवेहानयोर्भेदान् वक्ष्यति उपेक्षिते भवेदस्मिन् सम्बन्धो राजयक्ष्मण इति । स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः बलवान् व्याधिः समुदीर्यत इति सम्बन्धः। प्रमिताशनमेकरसाभ्यासः किंवातीतकालभोजनम् ॥३॥
For Private and Personal Use Only