________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ उदारकीर्तिब्रह्मर्षिरात्रेयः परमार्थवित् । क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम् ॥२॥ धनुषायस्यतोऽत्यर्थं भारमुबहतो गुरुम् । पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः॥ वृषं हयं वा धावन्तं दम्यं वान्यं निगृह्णतः। शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ॥ गङ्गाधरः-अथोद्देशानुक्रमादपस्मारानन्तरं क्षतक्षीणचिकित्सितमाहअथात इत्यादि। पूर्ववत् सव्वं व्याख्येयमिति ॥१॥
गङ्गाधरः-उदारकोर्तिरित्यादि। इदं वक्ष्यमाणं सनिदानं चिकित्सिम् आह स्म ॥२॥
गङ्गाधरः-धनुषत्यादि। आयस्यत आयास कुव्वतः। विषमादुच्चस्थानात् । युध्यत इति छान्दसत्वात् परस्मैपदम्। दम्यं वान्यं महिषादिकम्।
चक्रपाणि:-अपस्माररोगेण विषमदोषादिभ्य उरम्मतोऽपि भवति, ततः क्षतक्षीणो भवति, तत्सम्बन्धादपस्मारमनु क्षतक्षीणचिकित्सितमुच्यते। तत्र क्षतक्षीणरूपान् वक्ष्यमाणस्त्रीसेवनादिकरणशुक्रौजाक्षयाच जातो व्याधिः प्रधानमुरो विरुज्यते इत्यादिना वक्ष्यमाणलक्षणकः कारणे कार्योपचारादरःक्षत इत्युच्यते। यदा क्षतक्षीण इति पाठस्तदापि क्षीणशब्देन शुक्रौजःक्षययुक्तः पुरुष उच्यते। तथा क्षीणे च पुरुषे क्षतं भवतीति हेतोः क्षतक्षीण इत्युच्यते। अन्ये तु क्षतश्च क्षयश्च इति क्षतक्षयमित्याहुस्तेन रोगद्वयमेतत्। तथोरोरुकशोणित रित्यादिना क्षतस्य च क्षीणस्य च लक्षणं करिष्यति, तस्मिन् पक्षेऽव्यक्त लक्षणं तस्येति तथा साध्यो बलवतो नव इत्यादौ एकवचननिर्देशोऽनुपपन्नस्तेनैकस्यैव क्षतक्षीणस्य हेतुकृतं लक्षणद्वैविध्यम्, किंवा क्षतक्षयकारणयोः क्षतधातुक्षीणयोस्तद्विधलक्षणकारणाभिधानं पूर्वरूपावस्थायां व्याधिप्रतिक्रियार्थ ज्ञेयम् । ब्रह्मर्षिरित्यनेन देवर्षित्वं राजर्षित्वमात्रेयस्य निषेधति। चिकित्सार्थमिति प्रतिक्रियार्थम् । चिकित्सितमिति चिकित्साभिधायकग्रन्थम् ॥ २ ॥
चक्रपाणिः-चिकित्सा च निदानादिना ज्ञातस्यैव व्याधर्भवति ; तेन क्षीणनिदानमेव तावदाह-धनुषत्यादि। आयस्यत इति शरीरमायस्थतः । बलिभिरिति स्वापेक्षया बलाधिकैः ।
For Private and Personal Use Only