SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः] चिकित्सितस्थानम् । २७६१ जलाग्निद्रु मशैलेभ्यो विषमेभ्यश्च तौ सदा। रक्षेदुन्मादिनञ्चव सद्यः प्राणहरा हि ते ।। ४१॥ तत्र श्लोको। हतुः कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा। सामान्यतः पृथक्त्वाच्च लिङ्ग तेषाश्च भेषजम् ॥ अतत्त्वाभिनिवेशस्य प्रोवाच वदतां वरः । प्रजाहितार्थ भगवानपस्मारचिकित्सिते ॥४२॥ . इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने अपस्मारचिकित्सितं नाम दशमोऽध्यायः ॥ १०॥ गाधरः-उन्मादादिषु सद्यःमाणहरणान्याह-जलानीत्यादि। तापित्यपस्मारिणमतत्त्वाभिनिवेशिनश्च । सद्यःमाणहरा हि ते जलान्यादय इति ॥४१॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोकाविति । हेतुरित्यादि। अस्मिन्नप. स्मारचिकित्सितेऽध्याये हेतुरपस्मारस्य तथापस्मार दोषा यथा कुर्वन्ति तत् पोवाच। तथा महागदस्य ॥४२॥ गङ्गाधरः-अग्नीत्यादिनाध्यायसमाप्तिवाक्यम् ॥ इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पेऽपस्मारचिकित्सिजल्पाख्या दशमी शाखा ॥ १०॥ चक्रपाणिः-जलाग्नीत्यनेन जलादिसान्निध्ये यदि वेगो भवत्यपस्मारस्य तदा मरगमे । भवतीति दर्शयति ॥४१॥ चक्रपाणिः-संग्रहे कुर्वन्नीत्यादिना संप्राप्तिं गृह्णाति ॥ ४२ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पथ्येटीकायां चिकित्सितस्थानव्याख्यायाम् अपस्मारचिकित्सितं नाम दशमोऽध्यायः ॥ १०॥ - • महागदसमुत्थानं लिङ्गचोवाच सौषधम् । इति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy