________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारचिकित्सितम्
२७६० - चरक-संहिता।
ब्रह्मीखरसयुक्तं यत् पञ्चगव्यमुदाहृतम् । तत् सेव्यं शङ्खपुष्पी वा यच्च मेध्यं रसायनम् ॥ ३७॥ हृदयरयानुकूलाश्च कथाः सिद्धार्थवादिनः । संयोजयेयुर्विज्ञानं धैर्यस्मृतिशमादिभिः ॥ ३८॥ प्रयोज्यं तेललशुनं पयसा वा शतावरी । ब्रह्मीरसः कुष्ठरसो वचा वा मधुसंयुता ॥ ३६ ॥ दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी महागदः।
तस्माद रसायनरेनं प्रायशः समुपाचरेत् ॥ ४०॥ मुपपन्नं तमत्त्वाभिनिवेशिनं वमनादिभिः संशोध्य कृतसंसर्जनं मण्डादिक्रमेण कृताहारसंसर्जनं मेध्यमेधाहितैरन्नपानः पथ्यैरुपाचरद वैद्यः। ततो ब्रह्मीस्वरसयुक्तं यद् घृतमुदाहृतमिहाध्याये प्राक् ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च। पुराणमाज्यमन्माद-यक्ष्मापस्मारपापनुदिति ; तथा पञ्चगव्यं स्वल्पपश्चगव्यं महापञ्चगव्यञ्च यद् घृतमुदाहृतं तत् सेव्यमतत्त्वाभिनिवेशिना, शङ्खपुष्पी वा शङ्खपुष्पी स्वरसादिकल्पेन सेव्या। एवं यच्च मेध्यं मेधाकामीयं रसायनं तच्च सेव्यमिति ॥३६॥ ३७॥
गङ्गाधरः-हृदयस्येत्यादि। सिद्धाथवादिनः पण्डितजनस्य मनोऽनुकूलाः कथाः प्रबन्धकल्पनास्ताः संयोजयेयुः। एवं धैर्यादिभिर्विज्ञानं संयोजयेयुरिति ।।३८॥
गङ्गाधरः-प्रयोज्यमित्यादि। तिलतैलमिश्रितं लसुनकल्कमस्य भक्षयितुं प्रयोज्यम् । पयसा शतावरी वा प्रयोज्या। कल्क विधानेन ब्रह्मीस्वरसो वा प्रयोज्यः कुष्ठस्वरसो वा। तथा मधुसंयुता वचा वा प्रयोज्या ॥३९॥
गङ्गाधरः-दुश्चिकित्स्य इत्यादि। अपस्मारो व्याधिदुश्चिकित्स्यः । महागदोऽतत्त्वाभिनिवेशश्चिरकारी चिरानुबन्धी, तस्माद्रसायनर्मेधाकामीयादिभिरेनमतत्त्वाभिनिवेशिनमपस्मारिणञ्च समुपाचरेत् ॥४०॥
चक्रपाणिः-तेललशुनादयः पञ्च योगाः। (पिबन् ) चिरकारी चिरानुबन्धी। चिकित्सा दर्शयति ॥३८-४०॥
For Private and Personal Use Only