SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः] चिकित्सितस्थानम्। २७५४ शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनव्वसुः। महागदं सौम्य शृणु सहेत्वाकूतिभेषजम् ॥ ३४॥ मलिनाहारशीलस्य वेगान् प्राप्तान् निगृह्णतः। शीतोष्णस्निग्धरुताद्यहेतुभिश्चातिसेवितैः॥ हृदयं समुपास्मृत्य मनोबुद्धेमहाशिराः। दोषाः संदूष्य तिष्ठन्ति रजोमोहावृतात्मनः॥ रजस्तमोभ्यां वृद्धाभ्यां सत्त्वे मनसि संवृते। हृदये व्याकुले दोषैरथ मूढाल्पचेतसः॥ विषमां कुर्वते बुद्धिं नित्यानित्ये हिताहिते। अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम् ॥ ३५ ॥ स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः । कृतसंसर्जन मेध्यरन्नपानरुपाचरेत् ॥ ३६॥ उद्दिष्टः, तस्यातत्त्वाभिनिवेशस्य हेलाकृतिभेषजं तत्र नोक्तम्, अतस्तदिहाध्याये तूच्यताम् ॥३३॥ गङ्गाधरः-तत्रोत्तरमाह-शुश्रुषव इत्यादि। तद्वचः श्रखा पुनर्चसुरात्रेयः शुश्रूषवे शिष्यायाग्निवेशायाह । तद्यथा। महागदमित्यादि। हे सौम्य ! सहेलाकृतिभेषजं महागदमतत्त्वाभिनिवेशं शृणु ॥३४॥ - गङ्गाधरः-मलिनाहारेत्यादि । मलिनं मलकारिणमाहारं सेवितु शीलमस्य तस्य अविधार्यान् मूत्रपुरीषादिवेगान् निगृह्णतः शीतोष्णस्निग्धरुक्षादातुभिवातिसेवितैः कुपिता दोषा हृदयं समुपामृत्य मनोबुद्धेमहासिरा हृदयमूला दश संदृष्य तिष्ठन्ति। वृद्धाम्यां रजस्तमोभ्यां सत्त्वे मनसि संदृते रजोमोहावृतात्मनो रजस्तमआतमनसः पुंसो हृदये तस्मिन् दोषैाकुले मूढाल्पचेतसस्तस्य हृदयं सन्दूष्य तिष्ठन्तो दोषा नित्यानित्ये हिताहिते विषये विषमां बुद्धिं कुते। हितश्चाहितं बुध्यतेऽहितश्च हितं बुध्यते, नित्यमनित्यमनित्यं नित्यमित्येवं विषमबुद्धिस्तत्त्वाभिनिवेशप्रतिबन्धिनी बुद्धिर्भवति। तमतत्त्वाभिनिवेशं महागदमाप्ता आहुरिति ॥३५॥ गङ्गाधरः-अस्य चिकित्सामाह-स्नेहस्वेदेत्यादि।स्नेह क्रियास्वेद क्रियाभ्या. For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy