________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५८
चरक संहिता |
[ अपस्मारचिकित्सितम्
श्रभिः क्रियाभिः सिद्धाभिहृदयं संप्रबुध्यते स्रोतांसि चास्य शुध्यन्ति स्मृतिं संज्ञाञ्च बिन्दति ॥ ३१ ॥ यस्यानुबन्धरत्वागन्तुर्दोषलिङ्गाधिकाकृतिः ।
दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम् ॥ ३२ ॥ अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः । भगवन् पूर्व्वमुद्दिष्टः सूत्रस्थाने महागदः ॥ तत्त्वाभिनिवेशयस्तद्धेत्वाकृतिभेषजम् ।
तत्र नोक्तं ततः श्रोतुमिच्छामि तदिहोच्यताम् ॥ ३३ ॥ तैरावृतानामित्यादिभि
गङ्गाधर - - अथोपसंहरति - आभिरित्यादि । रेतदन्तेर्वचनरुक्ताभिः क्रियाभिः सिद्धाभिरप्रतिहताभिरपस्मारिणो मनः सम्प्रबुध्यते । स्रोतांसि च मनोवहानि शुध्यन्ति । स्मृतिं संज्ञाञ्चायं बिन्दति ॥ ३१ ॥
गङ्गाधरः- यस्यापस्मारिणोऽनुबन्ध आगन्तुदेवादिग्रहो वत्तते, तस्य दोषलिङ्गादुक्तवातादिलिङ्गादधिकाकृतिः दृश्येत तदा तस्यागन्तून्मादस्य देवादिग्रह जोन्मादस्य भेषजं कार्य्यमिति । अपस्मारचिकित्सितं समाप्तमिति ॥ ३२ ॥
गङ्गाधरः–अथ मानसगदप्रसङ्गादत्राग्निवेशः पप्रच्छ । तद्यथा । अनन्तरमित्यादि । अपस्मारस्य सहेतुभेषजोपदेशानन्तरमनिवेशः कृताञ्जलिः सन्निदं गुरुमुवाच । भगवन् गुरो: पूर्व्वं सूत्रस्थानेऽतत्त्वाभिनिवेशो नाम यो महागद चक्रपाणिः - सम्प्रत्यपस्मारे सूत्रेणानुबन्धलिङ्गचिकित्सामाह--यस्येत्यादि । दोषलिङ्गाधिकाकृतिरिति अपस्मारोक्तदोषलिङ्गेभ्यो ऽधिक्रागन्तून्मादसदृशी आकृतिर्यस्य स तथा । नागन्तु - लिङ्गं दोषेषु भवति, न च लिङ्गं विना आगन्तुलिङ्गता सम्भवति ; ततश्चागन्त्यपस्मारः पृथड न भवति, किन्तु दोषजस्थानुबन्धरूपः । पश्चात्कालीनः स आगन्तुः । तेन चत्वार एवापस्मारा भवन्तीति यदुक्तं तस्यागन्तुरनुबन्धो भवत्येव कदाचिदिति । अनेनानुबन्धरूपतैव भूतापस्मारे दर्शिता, न तून्मादवत् स्वातन्त्रेण कर्त्तव्यं भूतानाम् । अन्यत्राप्युक्तम् - अपस्मारो महाव्याधिः तस्माद दोषत एव तु । अन्ये तु भीमदन्तादयः स्वतन्वाङ्गत्वमपस्मारलक्षणं चिकित्सा निदेशा मन्तग्रन्थं वर्णयन्ति च । न संख्यानियमश्च दोषजापस्माराणामेवं भवति ॥ ३१ ॥ ३२ ॥ चक्रपाणिः - ( अस्मिन् प्रदेशे सैन्धवाः काश्मीराः) । भगवन्नित्यनेन तत्त्वाभिनिवेशस्य लक्ष्णचिकित्साग्रन्थं पठन्ति । तच्चानार्षमिति वृद्धाः ॥ ३३ ॥
For Private and Personal Use Only