________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७६६
चरक संहिता ।
पार्श्ववस्तिरुजा चाल्य- पित्ताग्निस्तां सुरायुताम् । भिन्नविकः समुस्ताति - विषां पाठां सवत्सकाम् ॥ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम् । स्वक्चीरों समितां क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ ७ ॥ इवालिकाविसग्रन्थि - पद्मकेशरचन्दनैः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[क्षतक्षीणचिकित्सितम्
भृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती ॥ ८ ॥ यवानां चूर्णमादाय नीरसिद्ध घृतप्लुतम् । ज्वरे दाहे सिताचौद्र - सक्तन् वा पयसा पिबेत् ॥ ६॥ कासी पस्थिशूली च लिह्यात् सघृतमाक्षिकाः । मधूकमधुकद्राचा त्वक्क्षीरीपिप्पलीवलाः ॥ १० ॥ सदोष जीर्णे सति पयसा सशर्करमन्नमद्यात् । यदि तत्र पार्श्व रुग् भवेदल्पपित्तामिव चेत्, तदा तां लाक्षां सुरायुतां पिवेत् । यदि स भिन्नविट्कः स्यात् तदा समुस्तातिविषां सवत्सकवीजां पाठां काथयित्वा पिबेत् । यदि क्षतोराः पुरुषो दीप्तानलो भवति, तदा लाक्षादिकानि सर्व्वाणि समांशानि क्षीरे यथायोग्ये चतु पक्त्वा पिवेत् ॥ ७ ॥
गङ्गाधरः - इक्ष्वालिकेत्यादि । इक्ष्वालिका इक्षुवालिका, विसं मृणालं, ग्रन्थिः पिप्पलीमूलं, पद्मकेशर, रक्तचन्दनं, पयसोऽष्टभागक भागं सर्व्वं पिष्ट्वा चतुर्गुणजलं दत्त्वा पक्त्वा पूतं कृखा शीते मधु दत्त्वा क्षती क्षतवक्षःसन्धानार्थं पिबेत् ॥ ८ ॥
गङ्गाधरः– यवानामित्यादि । यवानां चूर्णं चतुर्गुणक्षीरे सिद्धं घृतं यथायोग्यं दत्त्वा आप्लुत्य पिवेत्, ज्वरे दाहे च । अथवा सिताक्षौद्रयुक्तान् व्यवसक्तन् पयसा पिबेत् ॥ ९ ॥
गङ्गाधरः - कासीत्यादि । उरःक्षती कासी पर्व्वास्थिशली चेत्, तदा मधूकसारादिकं चूर्णीकृत्य घृतमधुभ्यां लिह्यात् ।। १० ।
"क्षतं मत्वा लाक्षां पिबेदिति योजना । सशर्करमिति शर्करासहितमन्नम् । भिन्नविकः समुस्तासि विषां पाठां द्विवत्सकाम् इति ये पठन्ति ते वत्सकभागद्वयं ग्राहयन्ति । किंवा वत्सकद्वयमेव वत्सक शब्देन गृह्यते ; तथाहि बृहत्फलः श्वेतपुष्पः स्निग्धपसः पुमान् भवेत् । श्यामा चारुणपुष्पी स्त्री फलवृन्तस्तथाणुभिरिति कल्पे कुटजस्त्रीपुरुषविभाग उक्तः । सन्धानार्थमिति क्षतोर:सन्धानार्थम् | मधूकशब्देनेह मधूकपुष्पं ग्राह्यम् ॥ ७ --१० ॥