SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसायनपादः १ २२८२ चरक-संहिता। तस्यान्ते यवाग्वादिभिः प्रकृत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णेश्च । अयञ्च रसायनप्रयोगप्रकर्षो विस्तावदग्निबलमभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कोऽतः परं यथासुखविहारः कामभनः स्यात्। अनेन प्रयोगेण ऋषयः पुनर्यवत्वमवापुर्वभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परमशरीर--बुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तप इति ॥ २६ ॥ इति चतुर्थामालकरसायनम्। हरीतक्यामलकविभीतकपञ्चपञ्चमूलनियुहेण पिप्पलीमधुकमधुककाकोली-क्षीरकाकोल्यात्मगुप्ताजीवकर्षभक-क्षीरशुक्लाकल्कसंप्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसंप्रयुक्तेन सर्पिषः कुम्भं यथाविधिना कुटी प्रविश्य यावत् प्रयोगं तावन्नान्न भुञ्जीत बुभुक्षायां फलमूलदुग्धादिकं भुञ्जीत। तस्यान्ते सर्वपरिमिततदौषधभक्षणान्ते। यवाग्वादिभिः मण्डपेयाविलेपीः क्रमेण अशिखा प्रकृतः स्वभावस्यावस्थापन कार्यम् । अभ्यङ्गोत्सादनं यवचर्णः सर्पिषा च कायं नान्यैः। ततस्तु अग्निवलं वीक्ष्य द्विरशनं यूषेण पयसा ससर्पिष्कः षष्टिकः। अतःपरं यथासुखविहारः सन् स्वेच्छया भक्षणं कुर्यादिति। अनेनेत्यादिनास्याशीः॥ इति चतुर्थी रसायनप्रयोग एक एवामलकयोगो न त्रयो योगाः ॥२६॥ गङ्गाधरः-हरीतकीत्यादि। क्षीरशुक्ला क्षीरविदारी, पुराणस्य गव्यसर्पिषः दध्यादीनां चूर्णसमत्वम् । भक्षयेद् इति वचनं लेह्य ऽपि अल्पाभ्यवहरणमातार्थत्वमुपपन्नम् । अनन्नभुगिति सर्वथा आहारान्तराभुक्। तस्यान्त इति एतत्प्रयोगपरित्यागकाले। प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणम्, तेन प्रयोगान्ते यदा अभ्यङ्गोत्सादनं कर्त्तव्यम्, तदा यवाग्वादिक्रमेणेत्युक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः। यूषण पयसा वेति विकल्पोऽग्निबलापेक्षया ॥२६॥ चक्रपाणिः-अत्र हरीतक्यादौ क्षीरशुक्लाः क्षीरविदारिकाः ; अब हरीतक्यादिक्वाथस्य त्वेकभागः, * प्रत्यवस्थापनमिति चक्रः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy